SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 284 // ल्यब्लोपे कर्मणि पञ्चमी आहारमाश्रित्य पञ्चकं वर्जयन्ति, तद्यथा-लसुणं पलाण्डुः करभीक्षीरंगोमांसंमद्यं चेत्येतत्पञ्चक- श्रुतस्कन्धः१ वर्जनेन मोक्षं प्रवदन्ति, तथैके-'वारिभद्रकादयो' भागवतविशेषाः शीतोदकसेवनेन सचित्ताप्कायपरिभोगेन मोक्षं प्रवदन्ति, सप्तममध्ययनं कुशीलउपपत्तिं च ते अभिदधति- यथोदकं बाह्यमलमपनयति एवमान्तरमपि, वस्त्रादेश्च यथोदकाच्छुद्धिरुपजायते एवं बाह्यशुद्धि- परिभाषा, सामर्थ्यदर्शनादान्तरापिशुद्धिरुदकादेवेति मन्यन्ते, तथैकेतापसब्राह्मणादयो हुतेन मोक्षप्रतिपादयन्ति, ये किल स्वर्गादिफलमनाशंस्य समिधाघृतादिभिर्हव्यविशेषैर्हताशनंतर्पयन्ति ते मोक्षायाग्निहोत्रं जुह्वति शेषास्त्वभ्युदयायेति, युक्तिंचात्र ते आहुःयथा (391-394) पृथ्व्यादिॐ ह्यग्निःसुवर्णादीनां मलंदहत्येवंदहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति // 12 // 392 // तेषामसम्बद्धप्रलापिनामुत्तर- जीवानामारम्भः दानायाह- प्रातः स्नानादिषु नास्ति मोक्ष इति प्रत्यूषजलावगाहनेन निःशीलानां मोक्षो न भवति, आदिग्रहणात् हस्तपादादि गृङ्ख्यादिश्च प्रक्षालनं गृह्यते, तथाहि- उदकपरिभोगेन तदाश्रितजीवानामुपमईः समुपजायते, न च जीवोपमर्दान्मोक्षावाप्तिरिति, न चैकान्तेनोदकं बाह्यमलस्याप्यपनयने समर्थम्, अथापि स्यात्तथाप्यान्तरं मलं न शोधयति,भावशुद्ध्या तच्छुद्धेः, अथ भावरहितस्यापि तच्छुद्धिः स्यात् ततो मत्स्यबन्धादीनामपि जलाभिषेकेण मुक्त्यवाप्तिः स्यात्, तथा- क्षारस्य पञ्चप्रकारस्यापित लवणस्य अनशनेन अपरिभोगेन मोक्षो नास्ति, तथाहि-लवणपरिभोगरहितानां मोक्षोभवतीत्ययुक्तिकमेतत् न चायमेकान्तो लवणमेव रसपुष्टिजनकमिति, क्षीरशर्करादिभिर्व्यभिचारात्, अपिचासौ प्रष्टव्यः- किं द्रव्यतो लवणवर्जनेन मोक्षावाप्तिः उत भावतः?, यदि द्रव्यतस्ततो लवणरहितदेशे सर्वेषां मोक्षः स्यात्, न चैवं दृष्टमिष्टं वा, अथ भावतस्ततो भाव एव प्रधान // 284 // कादेरेवेति (प्र०)। 0 पारिभाषिकलवणमात्रप्रतिपत्तिनिरासाय क्षारेति, अत एव पञ्चप्रकारस्यापीति वृत्तिः। 0 चणकादेरपि क्षारादिमत्त्वाल्लवणेति। चैतद् दृष्टं (प्र०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy