________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 283 // अज्ञेन सदसद्विवेकस्यालम्भ इत्येतच्चावगम्य तथा निश्चयनयमवगम्य एकान्तदुःखोऽयं ज्वरित इव लोकः संसारिपाणिगणः, श्रुतस्कन्ध:१ तथा चोक्तं-जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य। अहो दुक्खो हु संसारो, जत्थ कीसंति पाणिणो॥१॥तथा-तण्हाइयस्स सप्तममध्ययन कुशीलपाणं कूरो छुहियस्स भुजए तित्ती। दुक्खसयसंपउत्तं जरियमिव जगं कलयलेइ॥१॥ इति, अत्र चैवम्भूते लोके अनार्यकर्मकारी परिभाषा, स्वकर्मणा विपर्यासमुपैति सुखार्थी प्राण्युपमईं कुर्वन् दुःखमेवाप्नोति, यदिवा मोक्षार्थी संसारं पर्यटतीति // 11 // 391 // सूत्रम् 11-14 (391-394) उक्त: कुशीलविपाकोऽधुना तदर्शनान्यभिधीयन्ते- इहे ति मनुष्यलोके मोक्षगमनाधिकारे वा, एके केचन मूढा अज्ञानाऽऽच्छा पृथ्व्यादिदितमतयः परैश्च मोहिताः प्रकर्षेण वदन्ति प्रवदन्ति- प्रतिपादयन्ति, किं तत्?- मोक्षं मोक्षावाप्तिम्, केनेति दर्शयति- जीवानामारम्भः गृयादिश्च आहियत इत्याहार- ओदनादिस्तस्य सम्पद्- रसपुष्टिस्तां जनयतीत्याहारसम्पज्जननं- लवणम्, तेन ह्याहारस्य रसपुष्टिः क्रियते, तस्य वर्जनं तेनाऽऽहारसम्पज्जननवर्जनेन-लवणवर्जनेन मोक्षंवदन्ति, पाठान्तरं वा आहारसपंचयवजणेण' आहारेण सह लवणपञ्चकमाहारसपञ्चकम्, लवणपञ्चकं चेदम्, तद्यथा- सैन्धवं सौवर्चलं बिडं रौमं सामुद्रं चेति, लवणेन हि सर्वरसानामभिव्यक्तिर्भवति, तथा चोक्तं-लवणविहूणा य रसा चक्खुविहूणा य इंदियग्गामा। धम्मो य दयारहिओं सोक्खं संतोसरहियं / Mनो // 1 // तथा 'लवणं रसानां तैलं स्नेहानां घृतं मेध्याना'मित्यादि, तदेवम्भूतलवणपरिवर्जनेन रसपरित्याग एव कृतो भवति, तत्त्यागाच्च मोक्षावाप्तिरित्येवं केचन मूढाः प्रतिपादयन्ति, पाठान्तरं वा 'आहारओ पंचकवज्जणेणं' आहारत इति कर्मोदयसंपादितसुखादिपरिणामानां तन्मते दुःखरूपत्वात् / / ॐ जन्म दुःखं जरा दुःखं रोगाश्च मरणं च / अहो दुःख एव संसारः यत्र क्लिश्यन्ति जन्तवः / / // 283 // तृष्णार्दितस्य पानं कूरः क्षुधितस्य भुक्तौ तृप्तिः। दुःखशतसम्प्रयुक्तं ज्वरितमिव जगत्कलकलति॥ 1 // 0 दु:खं प्राप्नोति (मु०)। 7 लवणविहीनाश्च रसाश्चक्षुविहीनाश्चेन्द्रियग्रामाः। धर्मश्च दयारहित: सौख्यं सन्तोषरहितं न // 1 // * छायस्स भुत्तए तित्ती। दुक्खसयसंपतत्तं (मु०)। * धम्मो दयाय रहिओ (मु०)।