________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 281 // 3 कुशील जीवाकारं यानि विलम्बन्ति-धारयन्ति, यथाहि-कललार्बुदमांसपेशीगर्भप्रसवबालकुमारयुवमध्यमस्थविरावस्थान्तोमनुष्यो श्रुतस्कन्धः१ भवति, एवं हरितान्यपि शाल्यादीनि जातान्यभिनवानि संजातरसानि यौवनवन्ति परिपक्वानि जीर्णानि परिशुष्काणि सप्तममध्ययनं मृतानि तथा वृक्षा अप्यङ्करावस्थायां जाता इत्युपदिश्यन्ते मूलस्कन्धशाखाप्रशाखादिभिर्विशेषैः परिवर्धमाना युवानः पोता इत्युपदिश्यन्त इत्यादि शेषास्वप्यवस्थास्वायोज्यम्, तदेवं हरितादीन्यपि जीवाकारं विलम्बयन्ति, तत एतानि मूलस्कन्ध-सूत्रम् 7-10 शाखापत्रपुष्पादिषु स्थानेषु पृथक् प्रत्येकं श्रितानि व्यवस्थितानि, न तु मूलादिषु सर्वेष्वपि समुदितेषु एक एव जीवः, एतानि 8(387-390) पृथ्व्यादिच भूतानि सङ्ख्येयासङ्खयेयानन्तभेदभिन्नानि वनस्पतिकायाश्रितान्याहारार्थं देहापचयार्थं देहक्षतसंरोहणार्थं वाऽऽत्मसुखं प्रतीत्य जीवानामारम्भः आश्रित्य यच्छिनत्ति स प्रागल्भ्यात् धाष्टावष्टम्भादहूनां प्राणिनामतिपाती भवति, तदतिपाताच्च निरनुक्रोशतया न धर्मो गृयादिश्च नाप्यात्मसुखमित्युक्तं भवति // 8 // 388 // किञ्च- जातिं उत्पत्तिं तथा अङ्करपत्रमूलस्कन्धशाखाप्रशाखाभेदेन वृद्धिं च विनाशयन् बीजानि च तत्फलानि विनाशयन् हरितादीनि छिनत्तीति, असंयतः गृहस्थः प्रव्रजितो वा तत्कर्मकारी गृहस्थ एव, सच हरितच्छेदविधाय्यात्मानंदण्डयतीत्यात्मदण्डः, स हि परमार्थतः परोपघातेनात्मानमेवोपहन्ति, अथशब्दोवाक्यालङ्कारे आहुः एवमुक्तवन्तः, किमुक्तवन्त इति दर्शयति-यो हरितादिच्छेदको निरनुक्रोशः सः अस्मिन् लोके अनार्यधर्मा क्रूरकर्मकारी भवतीत्यर्थः, स च क एवम्भूतो यो धर्मापदेशेनात्मसुखार्थं वा बीजानि अस्य चोपलक्षणार्थत्वात् वनस्पतिकायं हिनस्ति स. पाषण्डिकलोकोऽन्यो वाऽनार्यधर्मा भवतीति सम्बन्धः॥९॥३८९॥ साम्प्रतं हरितच्छेदकर्मविपाकमाह- इह वनस्पतिकायोपमईकाः बहुषु जन्मसु गर्भादिकास्ववस्थासु कललार्बुदमांसपेशीरूपासु नियन्ते, तथा ब्रुवन्तोऽब्रुवन्तश्च व्यक्तवाचो O कारं यान्ति...तथाहि... (मु०)। 0 स्थातो मनुष्यो (मु०)। 0 देहोप० (मु०)। 0 धर्मावष्टम्भा० (प्र०)। // 281 //