SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ सप्तममध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 273 // ॥अथ सप्तममध्ययनं कुशीलपरिभाषाख्यम्॥ श्रुतस्कन्धः१| उक्तं षष्ठमध्ययनम्, साम्प्रतं सप्तममारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने महावीरस्य गुणोत्कीर्तनतः / कुशीलसुशीलपरिभाषा कृता, तदनन्तरं तद्विपर्यस्ताः कुशीला: परिभाष्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोग- परिभाषा, द्वाराणि व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-कुशीला:- परतीर्थिकाः पार्श्वस्थादयोवा स्वयूथ्या नियुक्तिः 86-87 अशीलाश्च गृहस्थाः परि-समन्तात् भाष्यन्ते-प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विपाकदुर्गतिगमनतश्च निरूप्यन्त इति तथा तद्विपर्ययेण शीलक्वचित्सुशीलाश्चेति, निक्षेपस्त्रिधा- ओघनामसूत्रालापकभेदात्, तत्रौघनिष्पन्ननिक्षेपेऽध्ययनम्, नामनिष्पन्ने कुशीलपरि- निक्षेपादिः भाषेति, एतदधिकृत्य नियुक्तिकृदाह नि०-सीले चउक्क दव्वे पाउरणाभरणभोयणादीसु / भावे उ ओहसीलं अभिक्खमासेवणा चेव // 86 // शीले शीलविषये निक्षेपे क्रियमाणे चतुष्क मिति नामादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यं इति द्रव्यशीलं प्रावरणाभरणभोजनादिषु द्रष्टव्यम्, अस्यायमर्थः- यो हि फलनिरपेक्षस्तत्स्वभावादेव क्रियासु प्रवर्तते स तच्छीलः, तत्रेह प्रावरणशील इति प्रावरणप्रयोजनाभावेऽपिताच्छील्यान्नित्यं प्रावरणस्वभावः प्रावरणे वा दत्तावधानः, एवमाभरणभोजनादिष्वपि द्रष्टव्यमिति, यो वा यस्य द्रव्यस्य चेतनाचेतनादेः स्वभावस्तद् द्रव्यशीलमित्युच्यते, भावशीलं तु द्विधाओघशीलमाभीक्ष्ण्यसेवनाशीलं चेति // 86 // तत्रौघशीलं व्याचिख्यासुराह // 273 // नि०- ओहे सीलं विरती विरयाविरई य अविरती असीलं / धम्मेणाणतवादी अपसत्थ अहम्मकोधादी॥८७॥
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy