SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 272 // दुःखयतीति दुःखं- अष्टप्रकारं कर्म तस्य क्षयः- अपगमस्तदर्थम्, किञ्च-लोकं विदित्वा आरं इहलोकाख्यं परं परलोकाख्य श्रुतस्कन्धः१ यदिवा- आरं- मनुष्यलोकं पारमिति- नारकादिकं स्वरूपतस्तत्प्राप्तिहेतुतश्च विदित्वा सर्वमेतत् प्रभुः भगवान् सर्ववारं बहुशो षष्ठमध्ययन श्रीमहावीरनिवारितवान्, एतदुक्तं भवति-प्राणातिपातनिषेधादिकं स्वतोऽनुष्ठाय परांश्चस्थापितवान्, न हि स्वतोऽस्थितः परांश्चस्थापयितु-8 मलमित्यर्थः, तदुक्तं-ब्रुवाणोऽपि न्याय्यं स्ववचनविरुद्धं व्यवहरन्, परान्नालं कश्चिद्दमयितुमदान्तः स्वयमिति / भवान्निश्चित्यैवं मनसि सूत्रम् 27-29 (378-380) जगदाधाय सकलं, स्वमात्मानं तावद्दमयितुमदान्तं व्यवसितः॥१॥इति, तथा- तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वयधुवंमि / वीरगुणादिः अणिगूहियबलविरिओ सव्वत्थामेसु उज्जमइ॥१॥ इत्यादि॥२८॥३७९॥साम्प्रतंसुधर्मस्वामी तीर्थकरगुणानाख्याय स्वशिष्यानाह- सोच्चा य इत्यादि, श्रुत्वा च दुर्गतिधारणाद्धर्मं- श्रुतचारित्राख्यमर्हद्भिर्भाषितं- सम्यगाख्यातमर्थपदानि- युक्तयो हेतवो वा। तैरुपशुद्धं- अवदातं सद्युक्तिकं सद्धेतुकं वा यदिवा अथैः- अभिधेयैः पदैश्च-वाचकैः शब्दैः उप-सामीप्येन शुद्धं-निर्दोषम्, तमेवम्भूतमर्हद्भिर्भाषितं धर्म श्रद्दधानाः, तथाऽनुतिष्ठन्तोजना लोका अनायुषः अपगतायुःकर्माणः सन्तः सिद्धाः, सायुषश्चन्द्राद्या देवाधिपा आगमिष्यन्तीति भविष्यन्ति। इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत् // 29 // ३८०॥इति वीरस्तवाख्यं षष्ठमध्ययनं / परिसमाप्तमिति॥ // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ षष्ठमध्ययनं श्रीवीरस्तुत्याख्यं समाप्तमिति // // 272 // O पारं (प्र०)। 0 तीर्थङ्करश्चतुर्ज्ञानी सुरमहितः सेधयितव्ये ध्रुवे। अनिगूहितबलवीर्यः सर्वस्थाम्नोद्यच्छति॥ 1 // * धूयंमि (मु०)। * विरओ (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy