________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 274 / / तत्रौघः- सामान्यं सामान्येन सावद्ययोगविरतो विरताविरतोवाशीलवान् भण्यते, तद्विपर्यस्तोऽशीलवानिति, आभीक्ष्ण्यसेवायां श्रुतस्कन्धः१ तु- अनवरतसेवनायां तु शीलमिदम्, तद्यथा- धर्मे धर्मविषये प्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशिष्टतपः करणं वा, सप्तममध्ययन आदिग्रहणादनवरताभिग्रहग्रहणादिकं परिगृह्यते, अप्रशस्तभावशीलं त्वधर्मप्रवृत्तिर्बाह्या आन्तरातु क्रोधादिषु प्रवृत्तिः, आदि कुशील परिभाषा, ग्रहणात् शेषकषायाश्चौर्याभ्याख्यानकलहादयः परिगृह्यन्त इति // 87 // साम्प्रतं कुशीलपरिभाषाख्यस्याध्ययनस्यान्वर्थतां नियुक्तिः दर्शयितुमाह 88-89 शीलनि०- परिभासिया कुसीला य एत्थ जावंति अविरता केई। सुत्ति पसंसा सुद्धो कुत्ति दुगुंछा अपरिसुद्धो // 48 // निक्षेपादिः परि-समन्तात् भाषिताः- प्रतिपादिताः कुशीलाः कुत्सितशीला अशुद्धा परतीर्थिकाः पार्श्वस्थादयश्च चशब्दात् यावन्तः केचनाविरता अस्मिन्नित्यत इदमध्ययनं कुशीलपरिभाषेत्युच्यते, किमिति कुशीला अशुद्धा गृह्यन्ते इत्याह-सुरित्ययं निपातः प्रशंसायांशुद्धविषयो वर्तते, तद्यथा-सौराज्यमित्यादि, तथा कुरित्ययमपि निपातो जुगुप्सायामशुद्धविषयों वर्तते, तद्यथा कुतीर्थं कुग्राम इत्यादि / / 88 // यदि कुत्सितशीला: कुशीलाः, कथं तर्हि ? परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवन्तीत्याह-8 नि०- अफासुयपडिसेवियणामं भुजो य सीलवादी य / फासुंवयंति सीलं अफासुया मो अभुंजंता // 89 // अस्त्ययं शीलशब्दस्तत्स्वाभाव्ये, तथाहि- यः फलनिरपेक्षः क्रियास्वाभरणादिकासु प्रवर्तते स चेह द्रव्यशीलत्वेन / प्रदर्शितः, अस्त्युपशमप्रधाने चारित्रे, तथाहि- तत्प्रधानः शीलवानयं तपस्वीति, तद्विपर्ययेण दुःशील इति, स चेह // 274 // भावशीलग्रहणेनोपात्त इति, इह च यतीनां ध्यानाध्ययनादिकं मुक्त्वा धर्माधारशरीरतत्पालनाहारव्यापारं च मुक्त्वा नापरः (r) आभीक्ष्ण्यसेवनायामनवरत (प्र०)। (r) सुद्धे कुत्ति दुगुंछा अपरिसुद्धे (प्र०)। 0 शीला: परतीर्थिका: (मु०)। 0 विषये वर्तते, कुतीर्थं (मु०)।