________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 266 // वेदयन्ति अनुभवन्ति, वनेषु च मध्ये यथा नन्दनं वनं देवानांक्रीडास्थानं प्रधानं एवं भगवानपिज्ञानेन केवलाख्येन समस्तपदार्था- श्रुतस्कन्धः 1 विर्भावकेन शीलेन च चारित्रेण- यथाख्यातेन श्रेष्ठः प्रधानः भूतिप्रज्ञः प्रवृद्धज्ञानो भगवानिति // 18 // 369 // अपिच षष्ठमध्ययनं श्रीमहावीरथणियं व सद्दाण अणुत्तरे उ, चंदो व ताराण महाणुभावे। गंधेसु वा चंदणमाहु सेलु, एवं मुणीणं अपडिन्नमाहु / / सूत्रम् 19 // स्तुत्य, ( // 370 // ) सूत्रम् 19-21 (370-372) जहा सयंभूउदहीण सेढे, नागेसुवा धरणिंदमाहुसेटे।खोओदए वा रस वेजयंते, तवोवहाणे मुणिवेजयंते॥सूत्रम् 20 // // 371 // ) वीरगुणादिः यथा शब्दानां मध्ये स्तनितं मेघगर्जितं तद् अनुत्तरं प्रधानम्, तुशब्दो विशेषणार्थः समुच्चयार्थो वा, तारकाणां च नक्षत्राणां वीरस्तुत्यादिः मध्ये यथा चन्द्रो महानुभागः सकलजननिर्वृत्तिकारिण्या कान्त्या मनोरमः श्रेष्ठः, गन्धेषु इति गुणगुणिनोरभेदान्मतुब्लोपाद्वा गन्धवत्सु मध्ये यथा चन्दनं गोशीर्षकाख्यं मलयजं वा तज्ज्ञाः श्रेष्ठमाहुः, एवं मुनीनां महर्षीणां मध्ये भगवन्तं नास्य प्रतिज्ञा इहलोकपरलोकाशंसिनी विद्यते इत्यप्रतिज्ञस्तमेवम्भूतं श्रेष्ठमाहुरिति ॥१९॥३७०॥अपिच-स्वयं भवन्तीति स्वयम्भुवोदेवास्ते तत्रागत्य रमन्तीति स्वयम्भूरमणः तदेवं उदधीनां समुद्राणां मध्ये यथा स्वयम्भूरमणः समुद्रः समस्तद्वीपसागरपर्यन्तवर्ती / श्रेष्ठः प्रधानः नागेषु च भवनपतिविशेषेषु मध्ये धरणेन्द्रं धरणं यथा श्रेष्ठमाहुः, तथा खोओदए इति इक्षुरस इवोदकं यस्य स इक्षुरसोदकः स यथा रसमाश्रित्य वैजयन्तः प्रधानः स्वगुणैरपरसमुद्राणांपताकेवोपरि व्यवस्थितः एवं तपउपधानेन विशिष्टतपोविशेषेण मनुते जगतस्त्रिकालावस्थामिति मुनिः भगवान् वैजयन्तः प्रधानः, समस्तलोकस्य महातपसा वैजयन्तीवोपरि व्यवस्थित इति // 20 // 371 // हत्थीसु एरावणमाहुणाए, सीहो मिगाणंसलिलाण गंगा। पक्खीसुवागरुले वेणुदेवो, निव्वाणवादीणिहणायपुत्ते // सूत्रम् 21 // // 266 //