SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 264 // सूर्यवत्शुद्धलेश्यः- आदित्यसमानतेजाः, एवं अनन्तरोक्तप्रकारया श्रिया तुशब्दाद्विशिष्टतरया स:- मेरुः भूरिवर्णः अनेकवर्णो श्रुतस्कन्ध: 1 अनेकवर्णरत्नोपशोभितत्वात् मनः-अन्तःकरणं रमयतीति मनोरम:, अर्चिमालीव आदित्य इव स्वतेजसा द्योतयति दशापि षष्ठमध्ययन श्रीमहावीरदिशः प्रकाशयतीति ॥१३॥३६४॥साम्प्रतं मेरुदृष्टान्तोपक्षेपेण दार्शन्तिकं दर्शयति- एतदनन्तरोक्तं यशः कीर्तनं सुदर्शनस्य मेरुगिरेः महापर्वतस्य प्रोच्यते, साम्प्रतमेतदेव भगवति दार्टान्तिके योज्यते- एषा-अनन्तरोक्तोपमा यस्य स एतदुपमः, कोऽसौ? सूत्रम् 15-16 (366-367) श्राम्यतीति श्रमणस्तपोनिष्टप्तदेहो ज्ञाताः- क्षत्रियास्तेषां पुत्रः श्रीमन्महावीरवर्द्धमानस्वामीत्यर्थः, सच जात्या सर्वजातिमद्ध्यो / वीरगुणादिः यशसा अशेषयशस्विभ्यो दर्शनज्ञानाभ्यां सकलदर्शनज्ञानिभ्यः शीलेन समस्तशीलवद्भ्यः श्रेष्ठः- प्रधानः, अक्षरघटना तु वीरस्तुत्यादिः जात्यादीनां कृतद्वन्द्वानामतिशायने अर्शआदित्वादच्प्रत्ययविधानेन विधेयेति ॥१४॥३६५॥पुनरपि दृष्टान्तद्वारेणैव भगवतो व्यावर्णनमाह गिरीवरेवा निसहाऽऽययाणं, रुयए वसेट्टेवलयायताणं। तओवमेसेजगभूइपन्ने, मुणीण मझे तमुदाहु पन्ने॥सूत्रम् 15 // // 366 // ) अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाई।सुसुक्कसुक्कं अपगंडसुक्कं, संखिंदुएगंतवदातसुक्कं ॥सूत्रम् 16 // ( // 367 // ) यथा निषधो गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे अन्येषु वा द्वीपेषु दैर्येण श्रेष्ठः प्रधानः तथा- वलयायतानां मध्ये रुचकः पर्वतोऽन्येभ्यो वलयायतत्वेन यथा प्रधानः, स हि रुचकद्वीपान्तर्वर्ती मानुषोत्तरपर्वत इव वृत्तायत : सङ्खयेययोजनानि परिक्षेपेणेति, तथा स भगवानपि तदुपमः यथा तावायतवृत्तताभ्यां श्रेष्ठौ एवं भगवानपि जगति- संसारे भूतिप्रज्ञः- प्रभूतज्ञान: प्रज्ञया श्रेष्ठ इत्यर्थः, तथा अपरमुनीनां मध्ये प्रकर्षेण जानातीति प्रज्ञः एवं तत्स्वरूपविदः उदाहुः उदाहृतवन्त उक्तवन्त इत्यर्थः।। ©रमा (मु०)। (c) मत्वर्थीयात् अच्छ० (प्र०)। (c) वृत्तायतोऽसं 0 (प्र०) न चैतद्युक्तम् /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy