SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ | श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ षष्ठमध्ययनं श्रीमहावीरस्तुत्य, सूत्रम् 13-14 (374-375) वीरगुणादिः वीरस्तुत्यादिः // 263 // आदित्या ज्योतिष्का अनुपरिवर्तयन्ति यस्य पार्श्वतो भ्रमन्तीत्यर्थः, तथाऽसौ हेमवर्णो निष्टप्तजाम्बूनदाभः, तथा बहूनि चत्वारि नन्दनवनानि यस्य स बहुनन्दनवनः, तथाहि- भूमौ भद्रशालवनं ततः पञ्च योजनशतान्यारुह्य मेखलायां नन्दनं ततो द्विषष्टियोजनसहस्राणि पञ्चशताधिकान्यतिक्रम्य सौमनसंततः षट्त्रिंशत्सहस्राण्यारुह्य शिखरे पण्डकवनमिति, तदेवमसौ चतुर्नन्दनवनाद्युपेतो विचित्रक्रीडास्थानसमन्वितः, यस्मिन् महेन्द्रा अप्यागत्य त्रिदशालयाद्रमणीयतरगुणेन रतिं रमणक्रीडां वेदयन्ति अनुभवन्तीति // 11 // 362 / / अपिच-सः- मेाख्योऽयं पर्वतो मन्दरो मेरुः सुदर्शनः सुरगिरिरित्येवमादिभिः शब्दैर्महान् प्रकाशः- प्रसिद्धिर्यस्य स शब्दमहाप्रकाशो विराजते शोभते, काञ्चनस्येव मृष्टः श्लक्ष्णः शुद्धो वा वर्णो यस्य स तथा, एवं न विद्यते उत्तरः- प्रधानो यस्यासावनुत्तरः, तथा गिरिषु च मध्ये पर्वभिः- मेखलाभिदंष्ट्रापर्वतैर्वा दुर्गो विषमः सामान्यजन्तूनां दुरारोहो गिरिवरः पर्वतप्रधानः, तथाऽसौ मणिभिरौषधीभिश्च देदीप्यमानतया भौम इव भूदेश इव ज्वलित इति // 12 // 363 // किञ्च__ महीइमझंमि ठिते णगिंदे, पन्नायते सूरियसुद्धलेसे। एवं सिरीए उस भूरिवन्ने, मणोरमे जोयइ अच्चिमाली।सूत्रम् 13 / / ( // 364 // ) सुदंसणस्सेव जसो गिरिस्स, पवुच्चई महतोपव्वयस्स / एतोवमे समणे नायपुत्ते, जातीजसोदंसणनाणसीले॥सूत्रम् 14 // // 365 // ) मह्यां रत्नप्रभापृथिव्यां मध्यदेशे जम्बूद्वीपस्तस्यापि बहुमध्यदेशे सौमनसविद्युत्प्रभगन्धमादनमाल्यवन्तदंष्ट्रापर्वतचतुष्टयोपशोभितः समभूभागे दशसहस्रविस्तीर्णः शिरसि सहस्रमेकमधस्तादपि दश सहस्राणि नवतियोजनानि योजनैकादशभागैर्दशभिरधिकानि विस्तीर्णश्चत्वारिंशद्योजनोच्छ्रितचूडोपशोभितो नगेन्द्रः पर्वतप्रधानो मेरुः प्रकर्षेण लोके ज्ञायते / ®खलादिभि० (मु०)। // 263 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy