SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग निर्यक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 261 // स्तुत्य, ( // 358 // ), श्रुतस्कन्धः१ से पण्णसा अक्खयसागरे वा, महोदही वावि अणंतपारे। अणाइले वा अकसाइ मुक्के, सक्केव देवाहिवई जुईमं / / सूत्रम् 8 // षष्ठमध्ययन श्रीमहावीर(॥ 359 // ) नास्योत्तरोऽस्तीत्यनुत्तरस्तमिममनुत्तरं धर्मं जिनानां ऋषभादितीर्थकृतां सम्बन्धिनमयं मुनिः श्रीमान् वर्धमानाख्यः काश्यपः सूत्रम् 8 (359) गोत्रेण आशुप्रज्ञः केवलज्ञानी उत्पन्नदिव्यज्ञानो नेता प्रणेतेति, ताच्छीलिकस्तृन्, तद्योगे न लोकाव्ययनिष्ठे (पा० 2-3-69) वीरगुणादिः त्यादिना षष्ठीप्रतिषेधाद्धर्ममित्यत्र कर्मणि द्वितीयैव, यथा चेन्द्रो दिविस्वर्गे देवसहस्राणां महानुभावो महाप्रभाववान् ‘णं' इति वीरस्तुत्यादिः वाक्यालङ्कारे तथा नेता प्रणायको विशिष्टो रूपबलवर्णादिभिः प्रधानः एवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभागश्चेति // 7 // 358 ॥अपिच- असौ भगवान् प्रज्ञायतेऽनयेति प्रज्ञा तया अक्षयः न तस्य ज्ञातव्येऽर्थे बुद्धिः प्रतिक्षीयते प्रतिहन्यते वा, तस्य हि बुद्धिः केवलज्ञानाख्या, साच साद्यपर्यवसाना कालतो द्रव्यक्षेत्रभावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावाद्, एकदेशेन त्वाह- यथा सागर इति, अस्य चाविशिष्टत्वात् विशेषणमाह- महोदधिरिव स्वयम्भूरमण इवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च , एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरमणानन्तगुणा गम्भीराऽक्षोभ्या च, यथा च असौ सागरः अनाविलः अकलुषजलः, एवं भगवानपि तथाविधकर्मलेशाभावादकलुषज्ञान इति, तथा-कषाया / विद्यन्ते यस्यासौ कषायी न कषायी अकषायी, तथा ज्ञानावरणीयादिकर्मबन्धनाद्वियुक्तो मुक्तः, भिक्षुरिति क्वचित्पाठः, तस्यायमर्थः-सत्यपि निःशेषान्तरायक्षये सर्वलोकपूज्यत्वे च तथापि भिक्षामात्रजीवित्वात् भिक्षुरेवासौ, नाक्षीणमहानसादि (c) पन्नया (मु०)। 0 या (प्र०)। 0 भिक्खू (प्र०)। Oभावश्चेति (मु०)। 7 स्थित्यपेक्षया ज्ञेयापेक्षया तु द्रव्यादिवदनाद्यनन्तकालगोचरैव /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy