________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः१ // 260 // श्रुतस्कन्धः१ षष्ठमध्ययन श्रीमहावीरस्तुत्य, सूत्रम् (358) वीरगुणादिः वीरस्तुत्यादिः विशोधिकोटिरूपो यस्मात् स भवति निरामगन्धः, मूलोत्तरगुणभेदभिन्नां चारित्रक्रियां कृतवानित्यर्थः, तथाऽसह्यपरीषहोपसर्गाभिद्रुतोऽपि निष्प्रकम्पतया चारित्रे धृतिमान् तथा- स्थितो व्यवस्थितोऽशेषकर्मविगमादात्मस्वरूपे आत्मा यस्य स भवति स्थितात्मा, एतच्च ज्ञानक्रिययोः फलद्वारेण विशेषणम्, तथा- नास्योत्तर- प्रधानं सर्वस्मिन्नपि जगति विद्यते (यः) स तथा, विद्वानिति सकलपदार्थानां करतलामलकन्यायेन वेत्ता, तथा बाह्यग्रन्थात् सचित्तादिभेदादान्तराच्चकर्मरूपाद् 'अतीतो' अतिक्रान्तो ग्रन्थातीतो-निर्ग्रन्थ इत्यर्थः, तथा न विद्यते सप्तप्रकारमपि भयं यस्यासावभयः समस्तभयरहित इत्यर्थः, तथा न विद्यते चतुर्विधमप्यायुर्यस्य स भवत्यनायुः, दग्धकर्मबीजत्वेन पुनरुत्पत्तेरसंभवादिति // 5 // 356 // अपिच- भूतिशब्दो वृद्धौ मङ्गले रक्षायां च वर्तते, तत्र भूतिप्रज्ञः प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थः, तथा- भूतिप्रज्ञो जगद्रक्षाभूतप्रज्ञः एवं सर्वमङ्गलभूतप्रज्ञ इति, तथा अनियतं अप्रतिबद्धं परिग्रहायोगाच्चरितुं शीलमस्यासावनियतचारी तथौघं- संसारसमुद्र तरितुं शीलमस्य स तथा, तथा धी:- बुद्धिस्तया राजत इति धीरः परीषहोपसर्गाक्षोभ्यो वा धीरः, तथा अनन्तं- ज्ञेयानन्ततया नित्यतया वा चक्षुरिव चक्षुः- केवलज्ञानं यस्यानन्तस्य वा लोकस्य पदार्थप्रकाशकतया चक्षुर्भूतो यः स भवत्यनन्तचक्षुः, तथा यथा-सूर्यः अनुत्तरं सर्वाधिकं तपति न तस्मादधिकस्तापेन कश्चिदस्ति, एवमसावपि भगवान् ज्ञानेन सर्वोत्तम इति, तथा वैरोचनः अग्निः स एव प्रज्वलितत्वात् इन्द्रो यथाऽसौ तमोऽपनीय प्रकाशयति, एवमसावपि भगवानज्ञानतमोऽपनीय यथावस्थितपदार्थप्रकाशनं करोति // 6 // 357 // किञ्च अणुत्तरं धम्ममिणं जिणाणं, णेया मुणी कासवे आसुपन्ने। इंदेव देवाण महाणुभावे, सहस्सणेता दिविणं विसिट्टे ॥सूत्रम् 7 // 0 तस्य परमानेडितमित्यादिवदवयववाचित्वेन षष्ठी। 0 भूति० (प्र०)10 कासव (मु०)।