SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 258 // __( // 355 // ) श्रुतस्कन्धः१ स:-भगवान् चतुस्त्रिंशदतिशयसमेतः खेदं-संसारान्तर्वर्तिनांप्राणिनां कर्मविपाकजंदुःखंजानातीति खेदज्ञोदुःखापनो-8 षष्ठमध्ययनं श्रीमहावीरदनसमर्थोपदेशदानात्, यदिवा क्षेत्रज्ञो यथावस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ इति, अथवा- क्षेत्रं- आकाशं तज्जानातीति क्षेत्रज्ञो लोकालोकस्वरूपपरिज्ञातेत्यर्थः, तथा भावकुशान्- अष्टविधकर्मरूपान् लुनाति- छिनत्तीति कुशलः प्राणिनां सूत्रम् 3-4 कर्मोच्छित्तये निपुण इत्यर्थः, आशु-शीघ्रं प्रज्ञा यस्यासावाशुप्रज्ञः, सर्वत्र सदोपयोगाद्, न छद्मस्थ इव विचिन्त्य जानातीति (354-355) वीरगुणादिः भावः, महर्षिरिति क्वचित्पाठः, महांश्चासावृषिश्च महर्षिः अत्यन्तोग्रतपश्चरणानुष्ठायित्वादतुलपरीषहोपसर्गसहनाच्चेति, तथा वीरस्तुत्यादिः अनन्तं- अविनाश्यनन्तपदार्थपरिच्छेदकंवा ज्ञान-विशेषग्राहकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकत्वेनानन्तदर्शी, तदेवम्भूतस्य भगवतो यशोनृसुरासुरातिशाय्यतुलं विद्यते यस्य स यशस्वी तस्य, लोकस्य चक्षुःपथेलोचनमार्गे भवस्थकेवल्यवस्थायां स्थितस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा जानीहि अवगच्छ धर्मं संसारोद्धरणस्वभावम्, तत्प्रणीतं वा श्रुतचारित्राख्यम् , तथा तस्यैव भगवतस्तथोपसर्गितस्यापि निष्प्रकम्पां चारित्राचलनस्वभावां धृति संयमे रतिं तत्प्रणीतां वा प्रेक्षस्व सम्यक्कुशाग्रीयया बुद्ध्या पर्यालोचयेति, यदिवा- तैरेव श्रमणादिभिः सुधर्मस्वाम्यभिहितो यथा त्वं तस्य भगवतो यशस्विनश्चक्षुष्पथे व्यवस्थितस्य धर्मं धृतिं च जानीषे ततोऽस्माकं पेहि'त्ति कथयेति // 3 // 354 // साम्प्रतं सुधर्मस्वामी तगुणान् कथयितुमाह- ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरज्ज्वात्मके लोके ये केचन त्रस्यन्तीति त्रसास्तेजोवायुरूपविकलेन्द्रियपञ्चेन्द्रियभेदात् त्रिधा, तथा ये च स्थावराः पृथिव्यम्बुवनस्पतिभेदात् त्रिविधाः, एत उच्छ्रासादयः प्राणा विद्यन्ते (c) तत्प्रणीतश्रुतचारित्राख्यं (प्र०)। // 258 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy