SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 257 // सा चेयं- अनन्तरोक्तां बहुविधां नरकविभक्तिं श्रुत्वा संसारादुद्विग्नमनसः केनेयं प्रतिपादितेत्येतत् सुधर्मस्वामिनं अप्राक्षुः पृष्टवन्तःणंइति वाक्यालङ्कारे यदिवा जम्बूस्वामी सुधर्मस्वामिनमेवाह-यथा केनैवंभूतो धर्म: संसारोत्तारणसमर्थः प्रतिपादित इत्येतद्बहवो मां पृष्टवन्तः, तद्यथा- श्रमणा निर्ग्रन्थादयः तथा ब्राह्मणा ब्रह्मचर्याद्यनुष्ठाननिरताः, तथा अगारिणः क्षत्रियादयो येच शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्टवन्तः, किंतदिति दर्शयति-सको योऽसावेनं धर्मंदुर्गतिप्रसृतजन्तुधारकमेकान्तहित आह उक्तवान् अनीदृशं अनन्यसदृशं अतुलमित्यर्थः, तथा- साध्वी चासौ समीक्षा च साधुसमीक्षा- यथावस्थिततत्त्वपरिच्छित्तिस्तया, यदिवा- साधुसमीक्षया- समतयोक्तवानिति॥१॥३५२॥ तथा तस्यैव ज्ञानादिगुणावगतये प्रश्नमाहकथं केन प्रकारेण भगवान् ज्ञानमवाप्तवान्?, किम्भूतं वा तस्य भगवतो ज्ञान-विशेषावबोधकं?, किम्भूतं च 'से' तस्य दर्शनं सामान्यार्थपरिच्छेदकं? शीलं च यमनियमरूपं कीहक्? ज्ञाता:-क्षत्रियास्तेषां पुत्रो भगवान् वीरवर्धमानस्वामी तस्य आसीद् अभूदिति, यदेतन्मया पृष्टं तत् भिक्षो! सुधर्मस्वामिन याथातथ्येन त्वं जानीषे सम्यगवगच्छसि णं इति वाक्यालङ्कारे तदेतत्सर्वं यथाश्रुतं त्वया श्रुत्वा च यथा निशान्त मित्यवधारितं यथा दृष्टं तथा सर्वं ब्रूहि आचक्ष्वेति ॥२॥३५३॥स एवं पृष्टः सुधर्मस्वामी श्रीमन्महावीरवर्धमानस्वामिगुणान् कथयितुमाह खेयन्नए से कुसलासुपन्ने (व्ले महेसी), अणंतनाणी य अणंतदंसी। जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च धिइंच पेहि ॥सूत्रम् 3 // ( // 354 // ) ___ उई अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा।से णिच्चणिच्चेहि समिक्ख पन्ने, दीवे व धम्मंसमियं उदाहु / / सूत्रम् 4 // O मेवमाह (प्र०)। 0 निर्ग्रन्थाः (प्र०)। 0 योऽसाविमं (प्र०)। श्रुतस्कन्धः१ षष्ठमध्ययन श्रीमहावीरस्तुत्य, सूत्रम् 1-2 (352-353) ज्ञानदर्शनशील जिज्ञासा सूत्रम् 3-4 (354-355) वीरगुणादिः वीरस्तुत्यादिः // 257 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy