SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 255 // श्रुतस्कन्धः१ षष्ठमध्ययनं श्रीमहावीरस्तुत्य, नियुक्ति: 83 प्रधानवीर निक्षेपादिः मिश्रेषु तीर्थकरो विभूषित इति, क्षेत्रतः प्रधाना सिद्धिर्धर्मचरणाश्रयणान्महाविदेहं चोपभोगाङ्गीकरणेन तु देवकुर्वादिकं क्षेत्रम्, कालतः प्रधानं त्वेकान्तसुषमादि, यो वा कालविशेषो धर्मचरणप्रतिपत्तियोग्य इति, भावप्रधानं तु क्षायिको भाव: तीर्थकरशरीरापेक्षयौदयिको वा, तत्रेह द्वयेनाप्याधिकार इति / वीरस्य द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा निक्षेपः, तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यवीरो द्रव्यार्थं सङ्गामादावद्भुतकर्मकारितया शूरो यदिवा- यत्किञ्चित् वीर्यवद् द्रव्यं तत् द्रव्यवीरे अन्तर्भवति, तद्यथा- तीर्थकृदनन्तबलवीर्यो लोकमलोके कन्दुकवत् प्रक्षेप्तुमलं तथा मन्दरं दण्डं कृत्वा रत्नप्रभां पृथिवीं छत्रवद्विभृयात्, तथा चक्रवर्तिनोऽपि बलं 'दोसोला बत्तीसा', इत्यादि, तथा विषादीनां मोहनादिसामर्थ्य मिति, क्षेत्रवीरस्तु यो यस्मिन् क्षेत्रेऽद्भुतकर्मकारी वीरो वा यत्र व्यावय॑ते, एवं कालेऽप्यायोज्यम्, भाववीरो यस्य क्रोधमानमायालोभैः परीषहादिभिश्चात्मा न जितः, तथा चोक्तं-कोहं माणं च मायं च, लोभं पंचेंदियाणि य। दुज्जयं चेव अप्पाणं, सव्वमप्पे जिए जियं / / 1 // जो सहस्सं सहस्साणं। संगामे दुजए जिणे / एक्कं जिणेज्ज अप्पाणं, एस से परमो जओ॥२॥ तथा- एक्को परिभमउ जए वियर्ड जिणकेसरी। सलीलाए कंदप्पदुठ्ठदाढो मयणो विड्डारिओ जेणं // 3 // तदेवं वर्धमानस्वाम्येव परीषहोपसर्गरनुकूलप्रतिकूलैरपराजितोऽद्भुतकर्मकारित्वेन गुणनिष्पन्नत्वात् भावतो महावीर इति भण्यते, यदिवा- द्रव्यवीरो व्यतिरिक्त एकभविकादिः, क्षेत्रवीरो यत्र तिष्ठत्यसौ व्यावय॑ते वा, कालतोऽप्येवमेव, भाववीरो नोआगमतो वीरनामगोत्राणि कर्माण्यनुभवन्, सच वीरवर्धमानस्वाम्येवेति ॥८३॥स्तवनिक्षेपार्थमाह Oक्रोधो मानश्च माया च लोभश्च पञ्चेन्द्रियाणि च / दुर्जयं चैवात्मनः सर्वमात्मनि जिते जितं // 1 // यः सहस्रं सहस्राणां सङ्ग्रामे दुर्जयं जयेत् / एकं जयेदात्मानं एष तस्य परमो जयः // 2 // एकः परिभ्राम्यतु जगति विकटं जिनकेसरी। स्वलीलया कन्दर्पदुष्टदंष्ट्रः मदनो विदारितो येन // 3 // R
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy