________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 254 / / ॥अथ षष्ठमध्ययनं श्रीवीरस्तुत्याख्यम्॥ श्रुतस्कन्धः 1 उक्तं पञ्चममध्ययनम्, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः- अत्रानन्तराध्ययने नरकविभक्तिः प्रतिपादिता, सा षष्ठमध्ययनं श्रीमहावीरच श्रीमन्महावीरवर्धमानस्वामिनाऽभिहितेत्यतस्तस्यैवानेन गुणकीर्तनद्वारेण चरितं प्रतिपाद्यते शास्तुर्गुरुत्वेन शास्त्रस्य गरीयस्त्वमितिकृत्वा, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्राप्युपक्रमान्तर्गतोऽर्था- नियुक्तिः 83 प्रधानवीर धिकारो महावीरगुणगणोत्कीर्तनरूपः / निक्षेपस्तु द्विधा-ओघनिष्पन्नो नामनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनम्, नाम निक्षेपादिः निष्पन्ने तु महावीरस्तवः, तत्र महच्छब्दस्य वीर इत्येतस्य च स्तवस्य च प्रत्येकं निक्षेपो विधेयः, तत्रापि 'यथोद्देशस्तथा / निर्देश' इतिकृत्वा पूर्वं महच्छब्दो निरूप्यते, तत्रास्त्ययं महच्छब्दो बहुत्वे, यथा-महाजन इति, अस्ति बृहत्त्वे, यथा- महाघोषः, अस्त्यत्यर्थे, यथा- महाभयमिति, अस्ति प्राधान्ये, यथा महापुरुष इति, तत्रेह प्राधान्ये वर्तमानो गृहीत इत्येतन्नियुक्तिकारो दर्शयितुमाह नि०- पाहन्ने महसद्दो दव्वे खेत्ते य कालभावे य / वीरस्स उणिक्खेवो चउक्तओ होइ णायव्वो॥८३॥ तत्र महावीरस्तव इत्यत्र यो महच्छब्दः स प्राधान्ये वर्तमानो गृहीतः, तच्च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा प्राधान्यम्, नामस्थापने क्षुण्णे, द्रव्यप्राधान्यं ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात् त्रिधा, सचित्तमपि द्विपदचतुष्पदापदभेदात् त्रिधैव, तत्र द्विपदेषु तीर्थकरचक्रवादिकं चतुष्पदेषु हस्त्यश्वादिकमपदेषु प्रधानं कल्पवृक्षादिकम्, 2 // 254 // यदिवा- इहैव ये प्रत्यक्षा रूपरसगन्धस्पर्शीरुत्कृष्टाः पौण्डरीकादयः पदार्थाः अचित्तेषु वैडूर्यादयो नानाप्रभावा मणयो 0पर्यायत्वात्तत्त्वतस्तस्यैवामिधानं यथा भाषाभिधानं वाक्यशुद्धौ वाक्यनिक्षेपे।