SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 244 / / श्रुतस्कन्धः१ पञ्चममध्ययन नरकविभक्तिः, द्वितीयोद्देशकः सूत्रम् 5-6 (331-332) नरकदुःखोपक्रमः _ 'सेतस्य नारकस्य तिसृषु नरकपृथिवीषु परमाधार्मिका अपरनारकाश्च अधस्तनचतसृषु चापरनारका एव मूलत आरभ्य बाहून् प्रकर्तयन्ति छिन्दन्ति तथा मुखे विकाशं कृत्वा स्थूलं बृहत्तप्तायोगोलादिकं प्रक्षिपन्त आ- समन्ताद्दहन्ति / तथा रहसि एकाकिनं युक्तं उपपन्नं युक्तियुक्तं स्वकृतवेदनानुरूपं तत्कृतजन्मान्तरानुष्ठानं तं बालं अज्ञं नारकं स्मारयन्ति , तद्यथा- तप्तत्रपुपानावसरे मद्यपस्त्वमासीस्तथास्वमांसभक्षणावसरे पिशिताशी त्वमासीरित्येवं दुःखानुरूपमनुष्ठानं स्मारयन्तः कदर्थयन्ति, तथा-निष्कारणमेव आरूष्य कोपं कृत्वा प्रतोदादिना पृष्ठदेशेतं नारकं परवशं विध्यन्तीति // 3 // 329 // तथा- तप्तायोगोलकसन्निभां ज्वलितज्योतिर्भूतां तदेवंरूपां तदुपमा वा भूमिं अनुक्रामन्तः तां ज्वलितां भूमिं गच्छन्तस्ते दह्यमानाः करुणं दीनंविस्वरं स्तनन्ति रारटन्ति तथा तप्तेषु युगेषु युक्ता गलिबलीव इव इषुणा प्रतोदादिरूपेण विध्यमानाः स्तनन्तीति // 4 // 1330 // अन्यच्च बाला बला भूमिमणुक्कमंता, पविजलं लोहपहं च तत्तं / जंसीऽभिदुग्गंसि पवजमाणा, पेसेव दंडेहिं पुराकरंति // सूत्रम् 5 // ( // 331 // ) ते संपगाढंसि पवजमाणा, सिलाहि हम्मंति निपातिणीहिं। संतावणी नाम चिरट्टितीया, संतप्पती जत्थ असाहुकम्मा॥सूत्रम् 6 // ( // 332 // ) बाला निर्विवेकिनः प्रज्वलितलोहपथमिव तप्तां भुवं पविज्जलं तिरुधिरपूयादिना पिच्छिला बलादनिच्छन्तः अनुक्रम्यमाणाः प्रेर्यमाणा विरसमारसन्ति, तथा यस्मिन् अभिदुर्गे कुम्भीशाल्मल्यादौ प्रपद्यमाना नरकपालचोदिता न सम्यग्गच्छन्ति, ततस्ते कुपिताः परमाधार्मिकाः प्रेष्यानिव कर्मकरानिव बलीवर्दवद्वा दण्डैर्हत्वा प्रतोदनेन प्रतुद्य पुरतः अग्रतः कुर्वन्ति, न ते स्वेच्छया // 24
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy