SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 236 // नो चेव ते तत्थ मसीभवंति, ण मिज्जती तिव्वभिवेयणाए / तमाणुभागं अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडेणं // सूत्रम् 16 // श्रुतस्कन्धः१ ( // 315 // ) पञ्चममध्ययनं नरकविभक्तिः, ते परमाधार्मिकास्तान्नारकान्स्वकीये रुधिरे तप्तकवल्यां प्रक्षिप्ते पुनः पचन्ति, वर्च:प्रधानानि समुच्छ्रितान्यन्त्राण्यङ्गानि प्रथमोद्देशकः वा येषां ते तथा तान् भिन्नं- चूर्णितं उत्तमाङ्ग- शिरो येषां ते तथा तानिति, कथं पचन्तीत्याह- परिवर्तयन्तःउत्तानानवानखान् सूत्रम् 16-17 वा कुर्वन्तः णमिति वाक्यालङ्कारे तान्- स्फुरत इतश्चेतश्च विह्वलमात्मानं निक्षिपतः सजीवमत्स्यानिवायसकवल्यामिति // (314-315) नरकवेदना 15 // 314 // तथा- तेच नारका एवं बहुशः पच्यमाना अपि नो नैव तत्र नरके पाके वा नरकानुभावे वा सति मषीभवन्ति नैव भस्मसाद्भवन्ति, तथा तत्तीवाभिवेदनया नापरमग्निप्रक्षिप्तमत्स्यादिकमप्यस्ति यन्मीयते- उपमीयते, अनन्यसदृशीं तीव्रां वेदनांक वाचामगोचरामनुभवन्तीत्यर्थः, यदिवा- तीव्राभिवेदनयाऽप्यननुभूतस्वकृतकर्मत्वान्न म्रियन्त इति, प्रभूतमपि कालं यावत्ततादृशंशीतोष्णवेदनाजनितं तथा दहनच्छेदनभेदनतक्षणत्रिशूलारोपणकुम्भीपाकशाल्मल्यारोहणादिकं परमाधार्मिकजनितं परस्परोदीरणनिष्पादितं च अनुभागं कर्मणां विपाकं अनुवेदयन्तः समनुवेदयन्तःसमनुभवन्तस्तिष्ठन्ति, तथा स्वकृतेन दुष्कृतेन हिंसादिनाऽष्टादशपापस्थानरूपेण सततोदीर्णदुःखेन दुःखिनो दुःखयन्ति पीडयन्ते, नाक्षिनिमेषमपि कालं दुःखेन मुच्यन्त / इति // 16 // 315 // किशान्यत्तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति। न तत्थ सायं लहती भिदुग्गे, अरहियाभितावा तहवी तविंति ॥सूत्रम् 17 // // 236 // ( // 316 // ) (r) अरब्भिया० प्र०।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy