________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 234 / / अतितप्तवालुकायां चणकानिव समन्ततो घोलयन्ति, तथा अन्ये तत्र नरकावासे स्वकर्मपाशावपाशितान्नारकान् सुण्ठके श्रुतस्कन्धः१ प्रोतकमांसपेशीवत् पचन्ति भर्जयन्तीति // 10 // 309 // तथा पञ्चममध्ययनं नरकविभक्तिः , आसूरियं नाम महाभितावं, अंधंतमं दुप्पतरं महंतं / उई अहेअंतिरियं दिसासु, समाहिओ जत्थऽगणी झियाई। सूत्रम् 11 // प्रथमोद्देशकः ( // 310 // ) सूत्रम् 11-12 (310-311) जंसी गुहाए जलणेऽतिउट्टे, अविजाणओ डज्झइ लुत्तपण्णो। सया य कलुणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं // नरकवेदना सूत्रम् 12 / / ( // 311 // ) न विद्यते सूर्यो यस्मिन् सः असूर्यो-नरको बहलान्धकारः कुम्भिकाकृतिः सर्व एव वा नरकावासोऽसूर्य इति व्यपदिश्यते, तमेवम्भूतं महाभितापं अन्धतमसं दुष्प्रतरं दुरुत्तरं महान्तं विशालं नरकं महापापोदयाद्वजन्ति, तत्र च नरके ऊर्ध्वमधस्तिर्यक् / सर्वतः समाहितः सम्यगाहितो व्यवस्थापितोऽग्निवलतीति, पठ्यते च समूसिओ जत्थऽगणी झियाई यत्र नरके सम्यगूज़ श्रितः- समुच्छ्रितोऽग्निः प्रज्वलतितं तथाभूतं नरकं वराका व्रजन्ति इति // 11 // 310 // किञ्चान्यत्- यस्मिन् नरकेऽतिगतोऽसुमान् गुहाया मित्युष्ट्रिकाकृतौ नरके प्रवेशितो ज्वलने अग्नौ अतिवृत्तः अतिगतो वेदनाभिभूतत्वात्स्वकृतं दुश्चरितमजानन् / लुप्तप्रज्ञः अपगतावधिविवेको दन्दह्यते, तथा सदासर्वकालं पुनः करुणप्रायं कृत्स्नं वा घर्मस्थानं उष्णस्थानं तापस्थानमित्यर्थः, गाढ़त्ति अत्यर्थं उपनीतं ढौकितं दुष्कृतकर्मकारिणां यत् स्थानं तत्ते व्रजन्ति, पुनरपि तदेव विशिनष्टि-अतिदुःखरूपो-धर्म:स्वभावो यस्मिन्निति, इदमुक्तं भवति- अक्षिनिमेषमात्रमपि कालं न तत्र दुःखस्य विश्राम इति, तदुक्तं-अच्छिणिमीलणमेत्तं (c) प्रोतमां० (प्र०)। (c) असूरियं (प्र०)। 0 जाज्वल० (प्र०)। 0 पच्यते (प्र०)। 0 अक्षिनिमीलनमात्रं - // 234 //