________________ श्रुतस्कन्धः१ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 232 // नरकविभक्तिः, सूत्रम् 7-8 (306-307) नरकवेदना तिर्यमनुष्यभवात्सत्त्वा नरकेषूत्पन्ना अन्तर्मुहूर्तेन निलूंनाण्डजसन्निभानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चातिभयानकान्शब्दान् परमाधार्मिकजनितान् शृण्वन्ति, तद्यथा- हत मुद्रादिना छिन्त खड्गादिना भिन्त शूलादिना दहत मुर्मुरादिना, णमिति वाक्यालङ्कारे, तदेवम्भूतान् कर्णासुखान् शब्दान् भैरवान् श्रुत्वा ते तु नारका भयोद्धान्तलोचना भयेन- भीत्या भिन्नानष्टा संज्ञा- अन्तःकरणवृत्तिर्येषां ते तथा नष्टसंज्ञाश्च कां दिशं व्रजामः कुत्र गतानामस्माकमेवम्भूतस्यास्य महाघोरारवदारुणस्य दुःखस्य त्राणं स्यादित्येतत्कासन्तीति ॥६॥३०५॥ते च भयोद्धान्ता दिक्षु नष्टा यदनुभवन्ति तद्दर्शयितुमाह इंगालरासिं जलियंसजोतिं, तत्तोवमं भूमिमणुक्कमंता / ते डज्झमाणा कलुणंथणंति, अरहस्सरा तत्थ चिरद्वितीया॥सूत्रम् 7 // ( // 306 // ) जइ ते सुया वेयरणी भिदुग्गा, णिसिओजहा खुर इव तिक्खसोया / तरंति ते वेयरणी भिदुग्गां, उसुचोइया सत्तिसुहम्ममाणा॥ सूत्रम् 8 // ( // 307 // ) अङ्गारराशिं खदिराङ्गारपुजं ज्वलितं ज्वालाकुलं तथा सह ज्योतिषा- उद्योतेन इति सज्योतिर्भूमिः, तेनोपमा यस्याः सा तदुपमा तामङ्गारसन्निभां भूमिमाक्रामन्तस्ते नारका दन्दह्यमानाः करुणं दीनं स्तनन्ति आक्रन्दन्ति, तत्र बादराग्नेरभावात्तदुपमा भूमिमित्युक्तम्, एतदपि दिग्दर्शनार्थमुक्तम्, अन्यथा नारकतापस्येहत्याग्निना नोपमा घटते, तेच नारका महानगरदाहाधिकेन तापेन दह्यमाना अरहस्वरा: प्रकटस्वरा महाशब्दाः सन्तः तत्र तस्मिन्नरकावासे चिरं- प्रभूतं कालं स्थितिः- अवस्थानं येषां ते तथा, तथाहि- उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि जघन्यतो दशवर्षसहस्राणि तिष्ठन्तीति // 7 // ३०६॥अपिच-सुधर्मस्वामी 7 निर्लेनरोमाणोऽण्डजा इव।