________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 228 // कथं किम्भूता अभितापान्विता नरका नरकावासा भवन्तीत्येतदजानतो मे मम हे मुने जानन् सर्वमेव केवलज्ञानेनावगच्छन् ब्रूहि श्रुतस्कन्धः१ कथय, तथा कथं नु केन प्रकारेण किमनुष्ठायिनो नुरिति वितर्के बाला अज्ञा हिताहितप्राप्तिपरिहारविवेकरहितास्तेषु नरकेषूप पञ्चममध्ययनं नरकविभक्तिः, सामीप्येन तद्योग्यकर्मोपादानतया यान्ति गच्छन्ति किम्भूताश्च तत्र गतानां वेदनाः प्रादुष्षन्तीत्येतच्चाहं पृष्टवानि'ति॥१॥ ३००॥तथा एवं अनन्तरोक्तं मया विनेयेनोपगम्य पृष्टो महांश्चतुस्त्रिंशदतिशयरूपोऽनुभावो-माहात्म्यं यस्य स तथा, प्रश्नोत्तरकालं सूत्रम् 1-2 (300-301) च इदं वक्ष्यमाणम्, केवलालोकेन परिज्ञाय मत्प्रश्ननिर्वचनं अब्रवीत् उक्तवान्- कोऽसौ?- काश्यपो वीरो वर्धमानस्वामी नरकवेदना आशुप्रज्ञः सर्वत्र सदोपयोगात्, स चैवं मया पृष्टो भगवानिदमाह- यथा यदेतद्भवता पृष्टस्तदहं प्रवेदयिष्यामि कथयिष्याम्यग्रतो दत्तावधानः शृण्विति, तदेवाह- दुःखं इति नरकं दुःखहेतुत्वात् असदनुष्ठानं यदिवा- नरकावास एव दुःखयतीति दुःखं, अथवा- असातावेदनीयोदयात् तीव्रपीडात्मकं दुःखमिति, एतच्चार्थतः- परमार्थतो विचार्यमाणं दुर्गं गहनं विषमं दुर्विज्ञेयं असर्वज्ञेन, तत्प्रतिपादकप्रमाणाभावादित्यभिप्रायः, यदिवा- दुहमट्ठदुग्गं ति दुःखमेवार्थो यस्मिन् दुःखनिमित्तो वा दुःखप्रयोजनो वा स दुःखार्थो- नरकः, स च दुर्गो-विषमोदुरुत्तरत्वात् तं प्रतिपादयिष्ये, पुनरपि तमेव विशिनष्टि- आसमन्ताद्दीनमादीनं तद्विद्यते यस्मिन्स आदीनिकः- अत्यन्तदीनसत्त्वाश्रयस्तम्, तथा दुष्टं कृतं दुष्कृतं असदनुष्ठानं पापं वा तत्फलं वा असातोवेदनीयोदयरूपं तद्विद्यते यस्मिन्स दुष्कृतिकस्तम्, 'पुरस्ताद्' अग्रतः प्रतिपादयिष्ये, पाठान्तरं वा दुक्कडिणं ति दुष्कृतं विद्यते येषां ते दुष्कृतिनो- नारकास्तेषां सम्बन्धि चरितं पुरस्तात् पूर्वस्मिन् जन्मनि नरकगतिगमनयोग्यं यत्कृतंग 0 कथय, कथं (मु०)। 0 प्रादुष्यन्ती (मु०)। 0 0 नुभागो० (प्र०)। 0 णं, मो इति वाक्यालङ्कारे, के० (मु०)। 0 वीरवर्धमानस्वामी (प्र०)। ON असर्वज्ञस्य नरकज्ञानकारकतादृशज्ञानाभावात्। 0 श्रयस्तथा (मु०)।