SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 227 // श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः, प्रथमोद्देशकः सूत्रम् 1-2 (300-301) नरकवेदना साच पूरुधिरकेशास्थिवाहिनी महाभयानका कलकलायमानजलश्रोता तस्यांच क्षारोष्णजलायामतीव बीभत्सदर्शनायांनारकान् प्रवाहयन्तीति / तथा-खरस्वराख्यास्तु परमाधार्मिका नारकानेवं कदर्थयन्ति,तद्यथा-क्रकचपातैर्मध्यं मध्येन स्तम्भमिव सूत्रपातानुसारेण कल्पयन्ति- पाटयन्ति, तथा परशुभिश्च तानेव नारकान् परस्परं अन्योऽन्यं तक्षयन्ति सर्वशो देहावयवापनयनेन तनून कारयन्ति, तथा शाल्मलीं वज्रमयभीषणकण्टकाकुलांखरस्वरै आरटतो नारकानारोहयन्ति पुनरारूढानाकर्षयन्तीति / अपिच-महाघोषाभिधाना भवनपत्यसुराधमविशेषाः परमाधार्मिका व्याधा इव परपीडोत्पादनेनैवातुलं हर्षमुद्वहन्तः क्रीडया अनुहन्तः क्रीडया नानाविधैरुपायै रकान् कदर्थयन्ति, तांश्च भीतान् प्रपलायमानान् मृगानिव समन्ततः सामस्त्येन तत्रैव पीडोत्पादनस्थाने निरुम्भन्ति / त्ति प्रतिबध्नन्ति पशून् बस्तादिकान् यथा पशुवधे-समुपस्थिते नश्यतस्तद्वधकाः प्रतिबन्ध्नन्त्येवंतत्र नरकावासे नारकानिति / / ६८-८२।।गतो नामनिष्पन्ननिक्षेपः, अधुना सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं पुच्छिस्सऽहं केवलियं महेसिं, कहं भितावा णरगा पुरत्था?। अजाणओ मे मुणि बूहि जाणं, कहिं नु बाला नरयं उविंति?।। सूत्रम् 1 // ( // 300 // ) ___एवं मए पुढे महाणुभागे, इणमोऽब्बवी कासवे आसुपन्ने। पवेदइस्संदुहमट्ठदुग्गं, आदीणियंदुक्कडियंपुरत्था॥सूत्रम् 2 // // 301 // ) जम्बूस्वामिना सुधर्मस्वामी पृष्टः, तद्यथा- भगवन्! किंभूता नरकाः? कैर्वा कर्मभिरसुमतां तेषूत्पादः? कीदृश्यो वा तत्रत्या वेदना? इत्येवं पृष्टः सुधर्मस्वाम्याह-यदेतद्भवताऽहं पृष्टस्तदेतद् केवलिनं अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनं महर्षिं उग्रतपश्चरणकारिणमनुकूलप्रतिकूलोपसर्गसहिष्णुं श्रीमन्महावीरवर्धमानस्वामिनं पुरस्तात्पूर्वं पृष्टवानहमस्मि, यथा 0 श्रोता: (प्र०)। 0 शामली (मु०)। 0 स्वरैरारटन्तो (प्र०)10 महाणुभावे (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy