SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ || // 226 // वेदना तथा कालाख्या नरकपालासुरा मीरासु दीर्घचुल्लीषु तथा शुण्ठकेषु तथा कन्दुषु प्रचण्डकेषु तीव्रतापेषु नारकान् पचन्ति, तथा श्रुतस्कन्धः१ कुम्भीषु उष्ट्रिकाकृतिषु तथा लोहीषु आयसकवल्लिषु नारकान् व्यवस्थाप्य जीवन्मत्स्यानिव पचन्ति / अपिच- महाकालाख्या पञ्चममध्ययनं नरकविभक्तिः, नरकपाला: पापकर्मनिरता नारकान्नानाविधैरुपायैः कदर्थयन्ति, तद्यथा- काकिणीमांसकानि श्लक्ष्णमांसखण्डानि कल्पयन्ति / प्रथमोद्देशकः नारकान् कुर्वन्ति, तथा सीहपुच्छाणि त्ति पृष्ठीवर्धास्तांश्छिन्दन्ति, तथा ये प्राक् मांसाशिनो नारका आसन् तान् स्वमांसानि नियुक्तिः 68-82 खादयन्तीति / अपिच- असिनामानो नरकपाला अशुभकर्मोदयवर्तिनो नारकानेवं कदर्थयन्ति, तद्यथा- हस्तपादोरुबाहुशिरः नरकपालकृता पार्वादीन्यङ्गप्रत्यङ्गानि छिन्दन्ति प्रकामं अत्यर्थं खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादनविशेषणार्थ इति। तथा- असिप्रधानाः पत्रधनुर्नामानो नरकपाला असिपत्रवनं बीभत्सं कृत्वा तत्र छायार्थिनः समागतान् नारकान् वराकान् अस्यादिभिः पाटयन्ति, तथा कोष्ठनासिकाकरचरणदशनस्तनस्फिगूरुबाहूनां छेदनभेदनशातनादीनि विकुर्वितवाताहतचलिततरुपातितासिपत्रादिना कुर्वन्तीति, तदुक्तं-छिन्नपादभुजस्कन्धाश्छिन्नकर्णीष्ठनासिकाः। भिन्नतालुशिरोमेण्द्रा, भिन्नाक्षिहृदयोदराः॥१॥ किञ्चान्यत्कुम्भिनामानो नरकपाला नारकानरकेषु व्यवस्थितान् निघ्नन्ति, तथा पाचयन्ति, क्वेति दर्शयति- कुम्भीषु उष्ट्रिकाकृतिषु तथा / पचनेषु कडिल्लकाकृतिषु तथा लौहीषु आयसभाजनविशेषेषु कन्दुलोहिकुम्भीषु कन्दुकानामिव अयोमयीषु कुम्भीषु कोष्ठिकाकृतिषु एवमादिभाजनविशेषेषु पाचयन्ति / तथा- वालुकाख्याः परमाधार्मिका नारकानत्राणांस्तप्तवालुकाभृतभाजने चणकानिव तडतडित्ति स्फुटतः भज्जंति त्ति भृजन्ति- पचन्ति, क्व?, इत्याह- कदम्बपुष्पाकृतिवालुका कदम्बवालुका तस्याः 8 पृष्ठं- उपरितलं तस्मिन् पातयित्वा अम्बरतले लोलयन्तीति / किञ्चान्यत्- वैतरणीनामानो नरकपाला वैतरणी नदी विकुर्वन्ति, ___(r) कन्दुकेषु (मु०)। (r) स्वमासान् (प्र०)। 0 कण्ठोष्ठ० (प्र०) कष्ठोष्ठ (प्र०)। 0 पूतौ स्फिजौ कटि प्रोथौ हैमः / वाताहृत (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy