________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 225 // श्रुतस्कन्धः१ पञ्चममध्ययनं नरकविभक्तिः , प्रथमोद्देशकः नियुक्तिः 68-82 नरकपालकृता वेदना भूमौ पातयन्ति अधोमुखान्, तथोत्क्षिप्य अम्बरतले मुञ्चन्तीत्येवमादिकया विडम्बनया तत्र नरकपृथिवीषु नारकान् कदर्थयन्ति। किञ्चान्यत्- उप-सामीप्येन मुद्गरादिना हता उपहताः पुनरप्युपहता एव खड्गादिना हता उपहतहतास्तान्नारकान् तस्यां नरकपृथिव्यां निःसंज्ञकान् नष्टसंज्ञान मूर्छितान्सन्तः कर्पणीभिः कल्पयन्ति छिन्दन्तीतश्चेतश्च पाटयन्ति, तथा द्विदलचटुलकच्छिन्नानि तिमध्यपाटितान् खण्डशश्छिन्नांश्च नारकांस्तत्र-नरकपृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति, तथा- अपुण्यवतां तीव्रासातोदये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिका एतच्चैतच्च प्रवर्तयन्ति, तद्यथा- शातनं अङ्गोपाङ्गानां छेदनम्, तथा पातनं निष्कुटादधो वज्रभूमौ प्रक्षेपः तथा प्रतोदनं शूलादिना तोदनं व्यथनम्, (ग्रन्थाग्रं 3750) तथा सूच्यादिना नासिकादौ वेधस्तथा रज्ज्वादिना क्रूरकर्मकारिणं बध्नन्ति, तथा तादृग्विधलताप्रहारैस्ताडयन्त्येवं दुःखोत्पादकं दारुणंशातनपातनवेधनबन्धनादिकं बहुविधं प्रवर्तयन्ति व्यापारयन्तीति, अपिच-तथा- सबलाख्या नरकापालास्तथाविधकर्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजां नारकाणां यत्कुर्वन्ति तद्दर्शयति, तद्यथा- अन्त्रगतानि यानि फिप्फिसानि- अन्त्रान्तर्वर्तीनि मांसविशेषरूपाणि तथा हृदयन्ति पाटयन्ति तथा तद्गतं कालेज्जं ति हृदयान्तर्वतिं मांसखण्डं तथा फुप्फुसे त्ति उदरान्तर्वर्तीन्यन्त्रविशेषरूपाणि तथा वल्कलान् वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां नारकाणांतीवां वेदनामुत्पादयन्तीति। अपिचतथा अन्वर्थाभिधाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति। तथा भंजंतीत्यादि, तथा- उपरुद्राख्याः परमाधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहरुकादीनि तथा करचरणांश्च भञ्जन्ति मोटयन्ति, तथा पापकर्माणः कल्पनीभि: कल्पयन्ति पाटयन्ति, तन्नास्त्येव दुःखोत्पादनं यत्ते न कुर्वन्तीति / अपिच (r) कूष्माण्डवदायतं छित्त्वा यत्तिर्यक् छिद्यते वि० प्र०७व्यधनं (मु०)।त्पादनं (मु०)।७ किंच (प्र०)।७ तथा उपरुद्राख्या: (मु०)10 कर्पणीभिः (प्र०) // 225