SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ | श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ पञ्चममध्ययन नरकविभक्तिः, प्रथमोद्देशकः नियुक्ति: 65 नरकपालकृता वेदना // 222 // धम्मोत्ति अक्खराइं जेसु ण णज्जंति सुविणेऽवि॥४॥कालविभक्तिस्तु अतीतानागतवर्तमानकालभेदानिधा, यदिवैकान्तसुषमादिकक्रमेणावसर्पिण्युत्सर्पिण्युपलक्षितं द्वादशारंकालचक्रम्, अथवा-समयावलियमुहत्ता दिवसमहोरत्त पक्ख मासा य।संवच्छरयुगपलिया सागर उस्सप्पि परियट्टा // 1 // इत्येवमादिका वा कालविभक्तिरिति, भावविभक्तिस्तु जीवाजीवभावभेदाविधा, तत्र जीवभावविभक्तिः औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकभेदात् षट्प्रकारा, तत्रौदयिको गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्यैकैकैकैकषड्भेदक्रमेणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्त्वचारित्रभेदाद् द्विविधः, क्षायिकः सम्यक्त्वचारित्रज्ञानदर्शनदानलाभभोगोपभोगवीर्यभेदान्नवधा, क्षायोपशमिकस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रिपञ्चभेदाः तथा सम्यक्त्वचारित्रसंयमासंयमभेदक्रमेणाष्टादशधेति, पारिणामिको जीवभव्याभव्यत्वादिरूपः, सान्निपातिकस्तु द्विकादिभेदात् षड्विंशतिभेदः, संभवी तु षड्डिधोऽयमेव गतिभेदात्पञ्चदशधेति / अजीवभावविभक्तिस्तु मूर्तानांवर्णगन्धरसस्पर्शसंस्थानपरिणामः अमूर्तानांगतिस्थित्यवगाहवर्तनादिक इति॥६४॥, साम्प्रतं समस्तपदापेक्षया नरकविभक्तिरिति नरकाणां विभागो विभक्तिस्तामाह नि०- पुढवीफासं अण्णाणुवक्कम णिरयवालवहणंच / तिसुवेदेति अताणा अणुभागं चेव सेसासु॥६५॥ पृथिव्याः- शीतोष्णरूपायास्तीव्रवेदनोत्पादको यः स्पर्शः- सम्पर्कः पृथिवीसंस्पर्शस्तमनुभवन्ति, तमेव विशिनष्टि-अन्येन देवादिना उपक्रमितुं- उपशमयितुंयोन शक्यते सोऽन्यानुपक्रमस्तम्, अपराचिकित्स्यमित्यर्थः, तमेवम्भूतमपरासाध्यं पृथिवीस्पर्श - धर्म इति अक्षराणि यैर्न ज्ञायते स्वप्नेऽपि॥ 4 // समय आवलिका मुहूर्त्तः दिवसोऽहोरात्रं पक्षो मासश्च / संवत्सरं युगं पल्यं सागर उत्सर्पिण्यवसर्पिण्यौ पुद्गलपरावर्तः / / 1 // 6 परियट्टे' त्येवमादिका काल (मु०)। 0 अणुभावं (प्र०)। ओसप्पि (प्र०)। // 222 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy