SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ |श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ पञ्चममध्ययनं नरकविभक्तिः , प्रथमोद्देशकः नियुक्ति: 64 विभक्तेनिक्षेपाः | / / 220 // पुस्तकपत्रकादिन्यस्ता वा, द्रव्यविभक्तिर्जीवाजीवभेदाद द्विधा, तत्रापि-जीवविभक्तिः सांसारिकेतरभेदाविधा, तत्राप्यसांसारिकजीवविभक्तिर्द्रव्यकालभेदात् द्वेधा, तत्र द्रव्यतस्तीर्थातीर्थसिद्धादिभेदात्पञ्चदशधा, कालतस्तु प्रथमसमयसिद्धादिभेदादनेकधा, सांसारिकजीवविभक्तिरिन्द्रियजातिभवभेदात्रिधा,तत्रेन्द्रियविभक्तिः- एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियभेदात्पञ्चधा, जातिविभक्तिः पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् षोढा,भवविभक्ति रकतिर्यमनुष्यामरभेदाच्चतुर्धा, अजीवद्रव्यविभक्तिस्तु रूप्यरूपिद्रव्यभेदाद् द्विधा, तत्र रूपिद्रव्यविभक्तिश्चतुर्धा, तद्यथा- स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाश्च, अरूपिद्रव्यविभक्तिर्दशधा, तद्यथा- धर्मास्तिकायो धर्मास्तिकायस्य देशो धर्मास्तिकायस्य प्रदेशः, एवमधर्माकाशयोरपि प्रत्येकं त्रिभेदता द्रष्टव्या, अद्धासमयश्च दशम इति, क्षेत्रविभक्तिश्चतुर्धा, तद्यथा- स्थानं दिशं द्रव्यं स्वामित्वं चाश्रित्य, तत्र स्थानाश्रयणादूर्ध्वाधस्तिर्यग्विभागव्यवस्थितोलोको वैशाखस्थानस्थपुरुष इव कटिस्थकरयुग्म इव द्रष्टव्यः, तत्राप्यधोलोकविभक्ती रत्नप्रभाद्याः सप्त नरकपृथिव्यः, तत्रापि सीमन्तकादिनरकेन्द्रकावलिकाप्रविष्टपुष्पावकीर्णकवृत्तत्र्यसूचतुरस्रादिनरकस्वरूपनिरूपणम्, तिर्यग्लोकविभक्तिस्तु जम्बूद्वीपलवणसमुद्रधातकीखण्डकालोदसमुद्रेत्यादिद्विगुणद्विगुणवृद्ध्या द्वीपसागरस्वयम्भूरमणपर्यन्तस्वरूपनिरूपणम्, ऊर्ध्वलोकविभक्तिः सौधर्माद्या उपर्युपरिव्यवस्थिता द्वादश देवलोका: नव ग्रैवेयकानि पञ्च महाविमानानि, तत्रापि विमानेन्द्रकावलिकाप्रविष्टपुष्पावकीर्णकवृत्तत्र्यसूचतुरस्रादिविमानस्वरूपनिरूपणमिति, दिगाश्रयणेन तु पूर्वस्यां दिशि व्यवस्थितं क्षेत्रमेवमपरास्वपीति, द्रव्याश्रयणाच्छालिक्षेत्रादिकं गृह्यते, स्वाम्याश्रयणाच्च देवदत्तस्य क्षेत्रं यज्ञदत्तस्य वेति, यदिवा- क्षेत्रविभक्तिरार्यानार्यक्षेत्रभेदाद् द्विधा, तत्राप्यार्यक्षेत्रमर्धषड्विंशतिजनपदोपलक्षितं 0 इति (प्र०)। 0 वलिकप्र० (मु०)। // 220 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy