SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 218 // श्रुतस्कन्धः१ पञ्चममध्ययन नरकविभक्तिः, प्रथमोद्देशकः नियुक्तिः 62-63 नरकनिक्षेपः ॥अथ पञ्चममध्ययनं नरकविभक्त्याख्यम् / / ॥पञ्चमाध्ययने प्रथमोद्देशकः॥ उक्तं चतुर्थमध्ययनम्, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः, इहाद्ये अध्ययने स्वसमयपरसमयप्ररूपणाभिहिता, तदनन्तरं स्वसमये बोधो विधेय इत्येतद्वितीयेऽध्ययनेऽभिहितम्, सम्बुद्धेन चानुकूलप्रतिकूला उपसर्गाः सम्यक् सोढव्या इत्येतत्तृतीयेऽध्ययने प्रतिपादितम्, तथा सम्बुद्धेनैव स्त्रीपरीषहश्च सम्यगेव सोढव्य इत्येतच्चतुर्थेऽध्ययने प्रतिपादितम्, साम्प्रतमुपसर्गभीरोः स्त्रीवशगस्यावश्यं नरकपातो भवति तत्र च यादृक्षा वेदनाः प्रादुर्भवन्ति ता अनेनाध्ययनेन प्रतिपाद्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधाअध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो नियुक्तिकारेण प्रागेवाभिहितः, तद्यथा-'उवसग्गभीरुणो थीवसस्स नरएसु होज्जा उववाओ' इत्यनेन, उद्देशार्थाधिकारस्तु नियुक्तिकृता नाभिहितः, अध्ययनार्थाधिकारान्तर्गतत्वादिति। साम्प्रतं निक्षेपः, स च त्रिविधः, ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति,तत्रौघनिष्पन्ने निक्षेपेऽध्ययनम्, नामनिष्पन्ने तु नरकविभक्तिरिति द्विपदं नाम, तत्र नरकपदनिक्षेपार्थं नियुक्तिकृदाह नि०-णिरए छक्कं दव्वणिरया उ इहेव जे भवे असुभा। खेत्तं णिरओगासो कालो णिरएसुचेव ठिती // 62 // नि०- भावे उणिरयजीवा कम्मुदओ चेव णिरयपाओगो। सोऊण णिरयदुक्खं तवचरणे होइ जइयव्वं // 63 // तत्र नरकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यनरक आगमतो 0 उद्देशार्थाधिकारं तु स्वत एवोत्तरत्र नियुक्तिकृदेव वक्ष्यति / साम्प्रतं निक्षेपः (प्र०)। // 218 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy