________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 217 // श्रुतस्कन्धः 1 चतुर्थमध्ययन स्त्रीपरिज्ञा, सहेत, एवं च सर्वस्पर्शसहोऽनगारः साधुर्भवतीति ॥२१॥२९८॥क एवमाहेति दर्शयति- इति एवं यत्पूर्वमुक्तं तत्सर्वं स वीरो भगवानुत्पन्नदिव्यज्ञानः परहितैकरतः आह उक्तवान्, यत एवमतो धूतं-अपनीतं रजः-स्त्रीसम्पर्कादिकृतं कर्म येन स धूतरजाः तथा धूतो मोहो रागद्वेषरूपो येन स तथा। पाठान्तरं वा धूतः- अपनीतो रागमार्गो-रागपन्था यस्मिन् स्त्रीसंस्तवादिपरिहारे तत्तथा तत्सर्वं भगवान् वीर एवाह, यत एवं तस्मात् स भिक्षुः अध्यात्मविशुद्धः सुविशद्धान्तःकरणः सुष्टु रागद्वेषात्मकेन स्त्रीसम्पर्केण मुक्तः सन् आमोक्षाय अशेषकर्मक्षयं यावत्परि-समन्तात्संयमानुष्ठानेन व्रजेत् गच्छेत्संयमोद्योगवान् भवेदिति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् // 22 // 299 // इति द्वितीयोद्देशकः समाप्तः॥ इति चतुर्थं स्त्रीपरिज्ञाध्ययनं | परिसमाप्तम्॥ सूत्रम् 21-22 (298-299) स्खलितस्य तिरस्कारता ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ चतुर्थमध्ययनं स्त्रीपरिज्ञाख्यं समाप्तमिति // // 217 //