________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 215 // मृग इव धार्यते, नात्मवशो भोजनादिक्रिया अपि कर्तुं लभते, तथा प्रेष्य इव कर्मकर इव क्रयक्रीत इव वर्चः शोधनादावपि श्रुतस्कन्धः१ नियोज्यते, तथा-कर्तव्याकर्तव्यविवेकरहिततया हिताहितप्राप्तिपरिहारशून्यत्वात् पशुभूत इव, यथा हि पशुराहारभयमैथुनपरि स्त्रीपरिज्ञा, ग्रहाभिज्ञ एव केवलम्, एवमसावपि सदनुष्ठानरहितत्वात्पशुकल्पः, यदिवा-सस्त्रीवशगोदासमृगप्रेष्यपशुभ्योऽप्यधमत्वान्न द्वितीयोद्देशकः कश्चित्, एतदुक्तं भवति- सर्वाधमत्वात्तस्य तत्तुल्यं नास्त्येव येनासावुपमीयते, अथवा- न स कश्चिदिति, उभयभ्रष्टत्वात्, सूत्रम् 19-20 (296-297) तथाहि-न तावत्प्रव्रजितोऽसौ सदनुष्ठानरहितत्वात्, नापि गृहस्थः ताम्बूलादिपरिभोगरहितत्वाल्लोचिकामात्रधारित्वाच्च, स्खलितस्य यदिवा ऐहिकामुष्मिकानुष्ठायिनां मध्ये न स कश्चिदिति // 18 // 295 // साम्प्रतमुपसंहारद्वारेण स्त्रीसङ्गपरिहारमाह तिरस्कारता एयं खुतासु विन्नप्पं, संथवं संवासंच वजेज्जा / तजातिआ इमे कामा, वज्जकरा य एवमक्खाए।सूत्रम् 19 // ( // 296 // ) एवं भयंण सेयाय, इइ से अप्पगं निलंभित्ता / णो इत्थिंणो पसुंभिक्खू, णो सयंपाणिणा णिलिंजेज्जा ।सूत्रम् 20 // ( // 297 // ) ___ एतत् पूर्वोक्तं खुशब्दो वाक्यालङ्कारे तासु यत् स्थितं तासां वा स्त्रीणां सम्बन्धि यद् विज्ञप्तं- उक्तम्, तद्यथा- यदि सकेशया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकम्, तथा स्त्रीभिः सार्धं संस्तवं परिचयं तत्संवासंच स्त्रीभिः सहैकत्र निवासं चात्महितमनुवर्तमानः सर्वापायभीरुः त्यजेत् जह्यात्, यतस्ताभ्यो रमणीभ्यो जाति:- उत्पत्तिर्येषां तेऽमी कामास्तजातिका- रमणीसम्पर्कोत्थास्तथा अवयं पापं वजं वा गुरुत्वादधःपातकत्वेन पापमेव तत्करणशीला अवद्यकरा वज्रकरा वेत्येवं आख्याताः तीर्थकरगणधरादिभिः प्रतिपादिता इति // 19 // 296 // सर्वोपसंहारार्थमाह- एवं अनन्तरनीत्या भयहेतुत्वात् स्त्रीभिर्विज्ञप्तं तथा संस्तवस्तत्संवासश्च भयमित्यतः स्त्रीभिः सार्धं सम्पर्को न श्रेयसे असदनुष्ठानहेतुत्वात्तस्येत्येवं 0 न कश्चिदिति (मु०)। // 215 //