________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 211 // सुवर्णात्मिका वा शलाका यया गोरोचनादियुक्तया तिलकः क्रियत इति, यदिवा गोरोचनया तिलकः क्रियते (इति) सैव श्रुतस्कन्धः१ तिलककरणीत्युच्यते, तिलका वा क्रियन्ते-पिष्यन्ते वा यत्र सा तिलककरणीत्युच्यते, तथा अञ्जन-सौवीरकादिशलाका चतुर्थमध्ययनं स्त्रीपरिज्ञा, अक्ष्णोरञ्जनार्थं शलाका अञ्जनशलाका तामाहरेति। तथा ग्रीष्मे उष्णाभितापे सति मे मम विधूनकं व्यजनकं विजानीहि // द्वितीयोद्देशकः 10 // 287 // एवं सूत्रम् 11-13 (288-290) संडासगंच फणिहंच, सीहलिपासगंच आणाहि। आदंसगंच पयच्छाहि, दंतपक्खालणं पवेसाहि // सूत्रम् 11 // ( / / 288 // ) स्खलितस्य पूयफलं तंबोलयं, सूईसुत्तगंच जाणाहि / कोसंच मोयमेहाए, सुप्पुक्खलगंच खारगालणंच॥सूत्रम् 12 // ( // 289 // ) तिरस्कारता संडासकं नासिकाकेशोत्पाटनं फणिहं केशसंयमनार्थं कङ्कतकम्, तथा सीहलिपासगं ति वीणासंयमनार्थमूर्णामयं कङ्कणं च आनय ढोकयेति, एवं आ-समन्तादृश्यते आत्मा यस्मिन् स आदर्शः स एव आदर्शकस्तं प्रयच्छ ददस्वेति, तथा दन्ताः प्रक्षाल्यन्ते- अपगतमलाः क्रियन्ते येन तद्दन्तप्रक्षालनं- दन्तकाष्ठं तन्मदन्तिके प्रवेशयेति // 11 // 288 // पूगफलं प्रतीतं / ताम्बूलं नागवल्लीदलं तथा सूची च सूत्रं च सूच्यर्थं वा सूत्रं जानीहि ददस्वेति, तथा कोशं इति वारकादिभाजनं तत् मोचमेहाय समाहर, तत्र मोच:- प्रस्रवणं कायिकेत्यर्थः तेन मेहः-सेचनंतदर्थं भाजनंढौकय, एतदुक्तं भवति-बहिर्गमनं कर्तुमहमसमर्था रात्रौ भयाद्, अतो मम यथा रात्रौ बहिर्गमनं न भवति तथा कुरु, एतच्चान्यस्याप्यधमतमकर्तव्यस्योपलक्षणं द्रष्टव्यम्, तथा शूर्पे तन्दुलादिशोधनं तथोदूखलं तथा किञ्चन क्षारस्य-सर्जिकादेर्गालनकमित्येवमादिकमुपकरणं सर्वमप्यानयेति // 12 // 289 // किश्चान्यत् चंदालगंच करगंच, वच्चघरं च आउसो! खणाहि / सरपाययं च जायाए, गोरहगंच सामणेराए।सूत्रम् 13 // 290 //