________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ / / 210 // दक्षिणहस्तेन वीणावद्वाद्यते, तथौषधगुटिकां तथाभूतामानय येनाहमविनष्टयौवना भवामीति // 7 // 284 // तथा कुष्ठं- श्रुतस्कन्धः१ उत्पलकुष्ठं तथाऽगरं तगरं च, एते द्वे अपि गन्धिकद्रव्ये, एतत्कुष्ठादिकं उशीरेण वीरणीमूलेन सम्पिष्टं सुगन्धि भवति यतस्त चतुर्थमध्ययनं स्त्रीपरिज्ञा, तथा कुरु, तथा तैलं लोध्रकुङ्कमादिना संस्कृतं मुखमाश्रित्य भिलिजाए त्ति अभ्यङ्गाय ढौकयस्व, एतदुक्तं भवति-मुखाभ्यङ्गार्थं द्वितीयोद्देशकः तथाविधं संस्कृतं तैलमुपाहरेति, येन कान्त्युपेतं मे मुखं जायते, वेणुफलाई ति वेणुकार्याणि करण्डकपेटुकादीनि सन्निधिः सूत्रम् 9-10 (286-287) सन्निधानं- वस्त्रादेर्व्यवस्थापनं तदर्थमानयेति // 8 // 285 / / किञ्च स्खलितस्य नंदीचुण्णाईपाहराहि, छत्तोवाणहं च जाणाहि / सत्थं च सूवच्छेज्जाए, आणीलं च वत्थयं रयावेहि // सूत्रम् 9 // // 286 // ) | तिरस्कारता सुफणिं च सागपागाए, आमलगाइंदगाहरणंच। तिलगकरणिमंजणसलागं, प्रिंसु मे विहूणयं विजाणेहि ॥सूत्रम् 10 // // 287 // ) नन्दीचुण्णगाई ति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूर्णोऽभिधीयते, तमेवम्भूतं चूर्णं प्रकर्षण- येन केनचित्प्रकारेण आहर आनयेति, तथाऽऽतपस्य वृष्टेर्वा संरक्षणाय छत्रं तथा उपानहौ च ममानुजानीहि, न मे शरीरमेभिर्विना वर्तते ततो ददस्वेति, तथा शस्त्रं दात्रादिकं सूपच्छेदनाय पत्रशाकच्छेदनार्थं ढौकयस्व, तथा वस्त्रं अम्बरं परिधानार्थं गुलिकादिना रञ्जय यथा आनीलं- ईषन्नीलं सामस्त्येन वा नीलं भवति, उपलक्षणार्थत्वाद्रक्तं वा यथा भवतीति // 9 // 286 // तथा- सुष्टु सुखेन वा फण्यते- क्वाथ्यते तक्रादिकं यत्र तत्सुफणि-स्थालीपिठरादिकं भाजनमभिधीयते तच्छाकपाकार्थमानय , तथा आमलकानि धात्रीफलानि स्नानार्थं पित्तोपशमनायाभ्यवहारार्थं वा तथोदकमाहियते येन तदुदकाहरणं- कुटवर्धनिकादि, अस्य चोपलक्षणार्थत्वाद् घृततैलाद्याहरणं सर्वं वा गृहोपस्करं ढौकयस्वेति, तिलकः क्रियते यया सा तिलककरणी- दन्तमयी 0 भिजाए। भिडलिंजाए० (प्र०)। // 21