________________ 3600 श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 206 // ॥चतुर्थाध्ययने द्वितीयोद्देशकः॥ श्रुतस्कन्धः१ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके स्त्रीसंस्तवाच्चारित्रस्खलन चतुर्थमध्ययनं स्त्रीपरिज्ञा, मुक्तम्, स्खलितशीलस्य च या अवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्या- द्वितीयोद्देशकः स्योद्देशकस्यादिसूत्रं सूत्रम् 1-2 (278-279) ओएसया ण रज्जेज्जा, भोगकामी पुणो विरज्जेजा। भोगे समणाण सुणेह, जह भुंजंति भिक्खुणो एगे।सूत्रम् 1 // ( // 278 // ) स्खलितस्य अह तं तु भेदमावन्नं, मुच्छितं भिक्खु काममतिवटैं। पलिभिंदिया णं तो पच्छा, पादुद्धट्टमुद्धि पहणंति // सूत्रम् 2 // ( // 279 // ) तिरस्कारता अस्य चानन्तरपरम्परसूत्रसम्बन्धो वक्तव्यः, स चायं सम्बन्धो-विषयपाशैर्मोहमागच्छति यतोऽत ओज एको रागद्वेषवियुतः स्त्रीषु रागं न कुर्यात्, परम्परसूत्रसम्बन्धस्तु संलोकनीयमनगारं दृष्ट्वा यदि काचिद्योषित् साधुमशनादिना नीवारकल्पेन प्रतारयेत् तत्रौजः सन्न रज्येतेति, तत्रौजो द्रव्यतः परमाणुः भावतस्तु रागद्वेषवियुतः, स्त्रीषु रागादिहैव वक्ष्यमाणनीत्या / नानाविधा विडम्बना भवन्ति तत्कृतश्च कर्मबन्धः तद्विपाकाच्चामुत्र नरकादौ तीव्रा वेदना भवन्ति यतोऽत एतन्मत्वा भावौजः सन् सदा सर्वकालं तास्वनर्थखनिषु स्त्रीषुन रज्येत, तथा यद्यपि मोहोदयात् भोगाभिलाषी भवेत् तथाप्यैहिकामुष्मिकापायान् / परिगणय्य पुनस्ताभ्यो विरज्येत, एतदुक्तं भवति- कर्मोदयात्प्रवृत्तमपि चित्तं हेयोपादेयपर्यालोचनया ज्ञानाङ्कशेन निवर्तयेदिति, तथा श्राम्यन्ति- तपसा खिद्यन्तीति श्रमणास्तेषामपि भोगा इत्येतच्छृणुत यूयम्, एतदुक्तं भवति- गृहस्थानामपि भोगा विडम्बनाप्राया यतीनां तु भोगा इत्येतदेव विडम्बनाप्रायम्, किं पुनस्तत्कृतावस्थाः, तथा चोक्तं- मुण्डं शिर इत्यादि पूर्ववत्, 7 दृष्ट्वा च (मु०)। // 206 //