SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 205 // स्खलना तत्परित्यागश्च त्तिबेमि / इति इत्थीपरिन्नाए पढमो उद्देसो समत्तो॥४-१॥ श्रुतस्कन्धः१ बालस्य अज्ञस्य रागद्वेषाकुलितस्यापरमार्थदृश एतद्वितीयं मान्द्यं अज्ञत्वम्, एकं तावदकार्यकरणेन चतुर्थव्रतभङ्गो द्वितीय चतुर्थमध्ययनं स्त्रीपरिज़ा, तदपलपनेन मृषावादः, तदेव दर्शयति- यत्कृतमसदाचरणं भूयः पुनरपरेण चोद्यमानः अपजानीत अपलपति- नैतन्मया प्रथमोद्देशकः कृतमिति, स एवम्भूतः असदनुष्ठानेन तदपलपनेन च द्विगुणं पापं करोति, किमर्थमपलपतीत्याह- पूजनं- सत्कारपुरस्कार- सूत्रम् 30-31 (276-277) स्तत्काम:- तदभिलाषी मा मे लोके अवर्णवादः स्यादित्यकार्य प्रच्छादयति विषण्ण:- असंयमस्तमेषितुं शीलमस्य सोऽयं / चारित्रस्य विषण्णैषी // 29 // 275 // किश्चान्यत्-संलोकनीयं-संदर्शनीयमाकृतिमन्तं कञ्चन अनगारं साधुमात्मनि गतमात्मगतं आत्मज्ञमित्यर्थः, तदेवम्भूतं काश्चन स्वैरिण्यो निमन्त्रणेन निमन्त्रणपुरःसरं आहुः उक्तवत्यः, तद्यथा- हे त्रायिन्! साधो वस्त्रं पात्रमन्यद्वा , पानादिकं येन केनचिद्भवतः प्रयोजनंतदहं भवते सर्वंददामीति मदहमागत्य प्रतिगृहाण त्वमिति ॥३०॥२७६॥उपसंहारार्थमाहएतद्योषितां वस्त्रादिकमामन्त्रणं नीवारकल्पं बुध्येत जानीयात्, यथाहिनीवारेण केनचिद्भक्ष्यविशेषेण सूकरादिवशमानीयते, एवमसावपि तेनामन्त्रेण वशमानीयते, अतस्तन्नेच्छेद् अगारं गृहं गन्तुम्, यदिवा- गृहमेवावर्तो गृहावर्तो गृहभ्रमस्तं नेच्छेत् / नाभिलषेत्, किमिति?, यतो बद्धो वशीकृतो विषया एव शब्दादयः पाशा रज्जूबन्धनानि तैर्बद्धः- परवशीकृतः स्नेहपाशानपबोटयितुमसमर्थः सन् मोहं चित्तव्याकुलत्वमागच्छति- किंकर्त्तव्यतामूढो भवति पौनःपुन्येन मन्दः अज्ञो जड इति / इतिः परिसमाप्तौ। ब्रवीमीति पूर्ववत् // 31 // 277 // इति प्रथमोद्देशकः समाप्तः // 4-1 // // 205 // 0 अवजानाति (प्र०)। 0 मस्येति विष० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy