________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 203 // न श्रद्दधीत तत्कृतया माययात्मानं न प्रतारयेत्, दत्तावैशिकवत्, अत्र चैतत्कथानकं- दत्तावैशिक एकया गणिकया तैस्तैः श्रुतस्कन्धः१ प्रकारैः प्रतार्यमाणोऽपितांनेष्टवान्, ततस्तयोक्तं-किंमया दौर्भाग्यकलङ्कातिया जीवन्त्या प्रयोजनं?,अहं त्वत्परित्यक्ताऽग्निं स्त्रीपरिज्ञा, प्रविशामि, ततोऽसाववोचत्- मायया इदमप्यस्ति वैशिके, तदाऽसौ पूर्वं सुरङ्गामुखे काष्ठसमुदयं कृत्वा तं प्रज्वाल्य तत्रानु- प्रथमोद्देशकः प्रविश्य सुरङ्गया गृहमागता, दत्तकोऽपिच इदमपि अस्ति वैशिके, इत्येवमसौ विलपन्नपि वातिकैश्चितायांप्रक्षिप्तः, तथापि सूत्रम् 25-26 (271-272) नासौ तासु श्रद्धानं कृतवान्, एवमन्येनापि न श्रद्धातव्यमिति // 24 // 270 // किञ्चान्यत् चारित्रस्य जुवती समणंबूया, विचित्तलंकारवत्थगाणि परिहित्ता। विरता चरिस्सहरुक्खं, धम्ममाइक्खणेभयंतारो॥सूत्रम् 25 // // 271 // ) स्खलना तत्परित्यागश्च अदुसाविया पवाएणं, अहमंसिसाहम्मिणी यसमणाणं / जतुकुंभेजहा उवज्जोई,संवासे विदूविसीएज्जा।सूत्रम् 26 // // 272 // ) युवतिः अभिनवयौवना स्त्री विचित्रवस्त्रालङ्कारविभूषितशरीरा मायया श्रमणं ब्रूयात्, तद्यथा- विरता अहं गृहपाशात् न ममानुकूलो भर्ता मह्यं वाऽसौ न रोचते परित्यक्ता वाऽहं तेनेत्यत: चरिष्यामि करिष्याम्यहं रूक्ष मिति संयमम्, मौनमिति वा क्वचित्पाठः तत्र मुनेरयं मौनः-संयमस्तमाचरिष्यामि, धर्ममाचक्ष्व णे त्ति अस्माकं हे भयत्रातः!, यथाऽहमेवं दुःखानां भाजनं. न भवामि तथा धर्ममावेदयेति ॥२५॥२७१॥किञ्चान्यत्- अथवाऽनेन प्रवादेन व्याजेन साध्वन्तिकं योषिदुपसर्पत्- यथाऽहं श्राविके तिकृत्वा युष्माकं श्रमणानां साधर्मिणीत्येवं प्रपञ्चेन नेदीयसी भूत्वा कूलवालुकमिव साधु धर्माद्धंशयति, एतदुक्तं भवति- योषित्सान्निध्यं ब्रह्मचारिणां महतेऽनर्थाय, तथा चोक्तं- तज्ज्ञानं तच्च विज्ञानं, तत्तपः स च संयमः। सर्वमेकपदे भ्रष्ट, // 203 // सर्वथा किमपि स्त्रियः॥१॥अस्मिन्नेवार्थे दृष्टान्तमाह- यथा जातुषः कुम्भो ज्योतिषः अग्नेः समीपे व्यवस्थित उपज्योतिर्वर्ती 0 पूर्वसुर० (मु०)। 0 धूतः वि०प०।