SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 192 / / चारित्रस्य ह्यकुपितोऽपि कुपित इव ॥१॥तथा नापि च साहसं- अकार्यकरणं तत्प्रार्थनया समनुजानीयात् प्रतिपद्येत, तथा ह्यतिसाहसमे- श्रुतस्कन्धः१ ॐतत्सङ्गामावतरणवद्यन्नरकपातादिविपाकवेदिनोऽपिसाधोोषिदासजनमिति,तथा नैव स्त्रीभिःसार्धं ग्रामादौ विहरेत् गच्छेत. चतुर्थमध्ययनं स्त्रीपरिज्ञा, अपिशब्दात् न ताभिः सार्धं विविक्तासनो भवेत्, ततो महापापस्थानमेतत् यतीनां यत् स्त्रीभिः सह साङ्गत्यमिति, तथा प्रथमोद्देशकः चोक्तं- मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् / बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥१॥एवमनेन स्त्रीसङ्गवर्जनेनात्मा सूत्रम् 5-6 (251-252) समस्तापायस्थानेभ्यो रक्षितो भवति, यतः-सर्वापायानां स्त्रीसम्बन्धः कारणं, अतः स्वहितार्थी तत्सङ्गं दूरतः परिहरेदिति // 5 // // ५॥२५१॥कथं च ता: पाशावपाशिका: इत्याह- आमंतिय इत्यादि, स्त्रियो हि स्वभावेनैवाकर्तव्यप्रवणाः साधुमामन्त्र्य स्खलना तत्परित्यागश्च यथाऽहममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवं सङ्केतं ग्राहयित्वा तथा उस्सविय त्ति संस्थाप्योच्चावचैर्विश्रम्भ-8 जनकैरालापैर्विश्रम्भे पातयित्वा पुनरकार्यकरणायात्मना निमन्त्रयन्ति,आत्मोपभोगेन साधुमभ्युपगमं कारयन्ति / यदिवासाधोर्भयापहरणार्थं ता एव योषितः प्रोचुः, तद्यथा- भर्तारमामन्त्र्यापृच्छ्याहमिहाऽऽयाता, तथा संस्थाप्य- भोजनपाद धावनशयनादिकया क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतो भवता सर्वांमद्भर्तृजनितामाशङ्कांपरित्यज्य निर्भयेन भाव्यमिइत्येवमादिकैर्वचोभिर्विश्रम्भमुत्पाद्य भिक्षुमात्मना निमन्त्रयन्ते, युष्मदीयमिदंशरीरकं यादृक्षस्य क्षोदीयसोगरीयसो वा कार्यस्य क्षमतत्रैव नियोज्यतामित्येवमुपप्रलोभयन्ति, स च भिक्षुरवगतपरमार्थः एतानेव विरूपरूपान् नानाप्रकारान् शब्दादीन् विषयान् / तत्स्वरूपनिरूपणतोज्ञपरिज्ञया जानीयात्, यथैते स्त्रीसंसर्गापादिताः शब्दादयो विषया दुर्गतिगमनैकहेतवः सन्मार्गार्गलारूपा // 192 // इत्येवमवबुध्येत, तथा प्रत्याख्यानपरिज्ञया च तद्विपाकावगमेन परिहरेदिति॥६॥२५२ // अन्यच्च 0 महापायस्थान० (प्र०)। (c) चैता: पाशा इव पाशिका इ० (मु०)। 0 ०त्मनोप० (मु०)। 0 पदधा० (मु०)। 9 शब्दान् विषयान् (प्र०)। /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy