SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 184 / / ॥अथ चतुर्थमध्ययनं स्त्रीपरिज्ञाख्यम् // श्रुतस्कन्धः१ ॥चतुर्थाध्ययने प्रथमोद्देशकः॥ चतुर्थमध्ययनं स्त्रीपरिज्ञा, उक्तं तृतीयमध्ययनम्, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने उपसर्गाः प्रतिपादिताः, तेषां प्रथमोद्देशकः च प्रायोऽनुकूला दुःसहाः, ततोऽपिस्त्रीकृताः, अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययन- नियुक्ति: 54 स्त्रीपुरुषस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, निक्षेपादिः तत्राध्ययनार्थाधिकारः प्रागेव नियुक्तिकृता 'थीदोषविवज्जणा चेवे'त्यनेन स्वयमेव प्रतिपादितः, उद्देशार्थाधिकारं तूत्तरत्र नियुक्तिकृदेव भणिष्यति, साम्प्रतं निक्षेपः, स चौधनामसूत्रालापकभेदात्रिधा,तत्रौघनिष्पन्ने निक्षेपेऽध्ययनम्, नामनिष्पन्ने 'स्त्रीपरिज्ञे' ति नाम,तत्र नामस्थापने क्षुण्णत्वादनादृत्य स्त्रीशब्दस्य द्रव्यादिनिक्षेपार्थमाह नि०-दव्वाभिलावचिंधे वेदे भावे य इत्थिणिक्खेवो। अहिलावेजह सिद्धी भावे वेयंमि उवउत्तो॥५४॥ तत्र द्रव्यस्त्री द्वेधा- आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्र चानुपयुक्तः, अनुपयोगो द्रव्यमितिकृत्वा, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्रिधा, एकभविका बद्धायुष्काऽभिमुखनामगोत्रा चेति, चिह्नयते- ज्ञायतेऽनेनेति / चिह्न- स्तननेपथ्यादिकम्, चिह्नमात्रेण स्त्री चिह्नस्त्री अपगतस्त्रीवेदश्छद्मस्थः केवली वा अन्यो वा स्त्रीवेषधारी यः कश्चिदिति, वेदस्त्री तु पुरुषाभिलाषरूपः स्त्रीवेदोदयः, अभिलापभावौ तु नियुक्तिकृदेव गाथापश्चार्द्धनाह- अभिलप्यते // 184 // इत्यभिलापः स्त्रीलिङ्गाभिधानः शब्दः, तद्यथा- शाला माला सिद्धिरिति, भावस्त्री तु द्वेधा- आगमतो नोआगमतश्च, (r) प्राग्वत् (मु०)। 0 व्यतिरिक्तभेदाः।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy