SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 178 // श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, चतुर्थोद्देशकः नियुक्तिः 51-53 सदोषता परात्मनोश्च सुखोत्पादकत्वेन किल मैथुनं जायते इत्यध्यवसायिनां तथा कपिञ्जलोदकपानं यथा तडागोदकासंस्पर्शन किल भवत्येवमरक्तद्विष्टतया दर्भाद्यन्तरणात् स्त्रीगात्रासंस्पर्शेन पुत्रार्थं न कामार्थं ऋतुकालाभिगामितया शास्त्रोक्तविधानेन मैथुनेऽपि न दोषानुषङ्गः, तथा चोचुस्ते- धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः / ऋतुकाले विधानेन, दोषस्तत्र न विद्यते॥१॥ इति, एवमुदासीनत्वेन व्यवस्थितानां दृष्टान्तैरेव नियुक्तिकारो गाथात्रयेणोत्तरदानायाह नि०-जह णाम मंडलग्गेण सिरं छत्तू ण कस्सइ मणुस्सो। अच्छेज पराहुत्तो किं नाम ततो ण धिप्पेज्जा? // 51 // नि०-जह वा विसगंडूसं कोई घेत्तूण नाम तुण्हिक्को। अण्णेण अदीसंतो किं नाम ततो नवमरेजा!॥५२॥ नि०- जह नाम सिरिघराओ कोइ रयणाणि णाम घेत्तूणं / अच्छेज पराहुत्तो किं णाम ततो न घेप्पेजा? // 53 // यथा (ग्रन्थाग्रं 3000) नाम कश्चिन्मण्डलाग्रेण कस्यचिच्छिरश्छित्त्वा पराङ्मखस्तिष्ठेत् किमेतावतोदासीनभावावलम्बनेन न गृह्येत नापराधी भवेत्?। तथा- यथा कश्चिद्विषगण्डूषं गृहीत्वा पीत्वा नाम तूष्णींभावं भजेदन्येन चादृश्यमानोऽसौ किं नाम ततः' असावन्यादर्शनात् न म्रियेत? / तथा- यथा कश्चित् श्रीगृहाद्- भाण्डागाराद्रत्नानि महा_णि गृहीत्वा परामखस्तिष्ठेत्, किमेतावताऽसौ न गृह्येतेति?। अत्र च यथा-कश्चित् शठतया अज्ञतया वा शिरश्छेदविषगण्डूषरत्नापहाराख्ये सत्यपि दोषत्रये माध्यस्थ्यमवलम्बेत, नच तस्य तदवलम्बनेऽपि निर्दोषतेति, एवमत्राप्यवश्यंभाविरागकार्ये मैथुने सर्वदोषास्पदे संसारवर्द्धके कुतो निर्दोषतेति, तथा चोक्तं- प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः। नलिकातप्तकणकप्रवेशज्ञाततस्तथा // 1 // मूलं चैतदधर्मस्य, भवभावप्रवर्धनम् / तस्माद्विषान्नवत्त्याज्यमिदं पापमनिच्छता॥२॥इति नियुक्तिगाथात्रयतात्पर्यार्थः // 12 // 236 // ®दर्भाधुत्तारणात् (मु०) न्तेनेव (मु०)। // 178 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy