SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 174 // प्रज्ञापना प्रवृत्ता अपि न मोक्षगतयो भवन्ति अपि तु तस्मिन्नेव संसारे अनन्तमपि कालं यावदासत इति // 5 // 229 // मतान्तरं श्रुतस्कन्धः१ निराकर्तुं पूर्वपक्षयितुमाह- इहे ति मोक्षगमनविचारप्रस्तावे एकेशाक्यादयःस्वयूथ्या वा लोचादिनोपतप्ताः, तुशब्दः पूर्वस्मात् तृतीयमध्ययन उपसर्गपरिज्ञा, शीतोदकादिपरिभोगाद्विशेषमाह, भाषन्ते ब्रुवते मन्यन्ते वा क्वचित्पाठः, किं तदित्याह- सातं सुखं सातेन सुखेनैव विद्यते / चतुर्थोद्देशकः भवतीति, तथा च वक्तारो भवन्ति- सर्वाणि सत्त्वानि सुखे रतानि, सर्वाणि दुःखाच्च समुद्विजन्ते / तस्मात्सुखार्थी सुखमेव दद्यात्, सूत्रम् 5-6 (229-230) सुखप्रदाता लभते सुखानि ॥१॥युक्तिरप्येवमेव स्थिता, यतः कारणानुरूपं कार्यमुत्पद्यते, तद्यथा-शालिबीजाच्छाल्यङ्करो स्खलितजायते न यवाङ्कर इत्येवमिहत्यात् सुखान्मुक्तिसुखमुपजायते, न तु लोचादिरूपात् दुःखादिति, तथा ह्यागमोऽप्येवमेव शीलस्य व्यवस्थितः- मणुण्णं भोयणं भोच्चा, मणुण्णं सयणासणं। मणुण्णंसि अगारंसि, मणुण्णं झायए मुणी॥१॥ तथा मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराह्ने। द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥ इत्यतो मनोज्ञाहार-8 विहारादेश्चित्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेश्च मुक्त्यवाप्तिः, अतः स्थितमेतत्-सुखेनैव सुखावाप्तिः न पुनः कदाचनापि लोचादिना कायक्लेशेन सुखावाप्तिरिति स्थितम्, इत्येवं व्यामूढमतयो ये केचन शाक्यादयः तत्र तस्मिन्मोक्षविचारप्रस्तावे समुपस्थिते आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गो जैनेन्द्रशासनप्रतिपादितो मोक्षमार्गस्तं ये परिहरन्ति, तथा च- परमं च / समाधिं ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति, तथाहि- यत्तैरभिहितं- कारणानुरूपं कार्यमिति, तन्नायमेकान्तो, यतः शृङ्गाच्छरो जायते गोमयादृश्चिको गोलोमाविलोमादिभ्यों दूर्वेति, यदपि मनोज्ञाहारादिक // 174 // मुपन्यस्तं सुखकारणत्वेन तदपि विशूचिकादिसंभवाव्यभिचारीति, अपिच- इदं वैषयिकं सुखं दुःखप्रतीकारहेतुत्वात् 0 अपि तु न (मु०) 0 मनोज्ञ भोजनं भुक्त्वा मनोज्ञे शयनासने। मनोज्ञेऽगारे मनोज्ञं ध्यायेन्मुनिः॥ 1 // विलोमभ्यो (प्र०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy