________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 173 // शीलस्य प्रज्ञापना आसिलो नाम महर्षिस्तथा देविलो द्वैपायनश्च तथा पाराशराख्य इत्येवमादयः शीतोदकबीजहरितादिपरिभोगादेव सिद्धा इति। श्रुतस्कन्धः१ श्रूयते // 3 // 227 // एतदेव दर्शयितुमाह- एते पूर्वोक्ता नम्यादयो महर्षयः पूर्वमि ति पूर्वस्मिन्काले त्रेताद्वापरादौ महापुरुषा 8 तृतीयमध्ययनं उपसर्गपरिज्ञा, इति प्रधानपुरुषा आ-समन्तात् ख्याताः आख्याताः-प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगता इहापि आर्हते प्रवचने ऋषिभाषि- चतुर्थोद्देशक तादौ केचन सम्मता अभिप्रेता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः, तद्यथा- एते सर्वेऽपि बीजोदकादिकं भुक्त्वा सिद्धा सूत्रम् 5-6 (229-230) इत्येतन्मया भारतादौ पुराणे श्रुतम् // 4 // 228 // एतदुपसंहारद्वारेण परिहरन्नाह स्खलिततत्थ मंदा विसीअंति, वाहच्छिन्ना व गद्दभा। पिट्ठतो परिसप्पंति, पीढसप्पी व संभमे।सूत्रम् 5 // // 229 // ). इहमेगे उभासंति, सातं सातेण विज्जती / जे तत्थ आरियं मग्गं, परमंच समाहिए(यं)।सूत्रम् 6 // ( // 230 // ) तत्र तस्मिन् कुश्रुत्युपसर्गोदये मन्दा अज्ञा नानाविधोपायसाध्यं सिद्धिगमनमवधार्य विषीदन्ति संयमानुष्ठाने, न पुनरेतद्विदन्त्यज्ञाः, तद्यथा- येषां सिद्धिगमनमभूत् तेषां कुतश्चिन्निमित्तात् जातजातिस्मरणादिप्रत्ययानामवाप्तसम्यग्ज्ञानचारित्राणामेव वल्कलचीरिप्रभृतीनामिव सिद्धिगमनमभूत्, न पुनः कदाचिदपि सर्वविरतिपरिणामभावलिङ्गमन्तरेण शीतोदकबीजाधुपभोगेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते, विषीदने दृष्टान्तमाह- वहनं वाहो- भारोद्वहनं तेन छिन्ना:-कर्षितास्त्रुटिता रासभा इव विषीदन्ति, यथा- रासभा गमनपथ एव प्रोज्झितभारा निपतन्ति, एवं तेऽपि प्रोझ्य संयमभारं शीतलविहारिणो भवन्ति, दृष्टान्तान्तरमाह- यथा पृष्ठसर्पिणो भग्नगतयोऽग्न्यादिसम्भ्रमे सत्युद्धान्तनयनाः समाकुलाः प्रनष्टजनस्य पृष्ठतः। // 173 // पश्चात्परिसर्पन्ति नाग्रगामिनो भवन्ति, अपि तु तत्रैवाग्न्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि शीतलविहारिणो मोक्षं प्रति पराशराख्य (मु०)। ॐ पिट्ठ० (मु०)।