________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 172 / / श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 2-4 (226-228) स्खलित शीलस्य प्रज्ञापना अभुंजिया नमी विदेही, रामगुत्ते य भुंजिआ। बाहुए उदगंभोच्चा, तहा तारागणे रिसी।सूत्रम् 2 // ( // 226 / / ) केचन अविदितपरमार्था आहुः उक्तवन्तः, किं तदित्याह- यथा महापुरुषाः प्रधानपुरुषा वल्कलचीरितारागणर्षिप्रभृतयः पूर्वं पूर्वस्मिन् काले तप्तं- अनुष्ठितं तप एव धनं येषां ते तप्ततपोधनाः- पञ्चाग्न्यादितपोविशेषेण निष्टप्तदेहाः, त एवम्भूताः शीतोदकपरिभोगेन, उपलक्षणार्थत्वात् कन्दमूलफलाद्युपभोगेन च सिद्धिमापन्नाः सिद्धिं गताः, तत्र एवम्भूतार्थसमाकर्णने तदर्थसद्भावावेशात् मन्दः अज्ञोऽस्नानादि त्याजितः प्रासुकोदकपरिभोगभग्नः संयमानुष्ठाने विषीदति, यदिवा तत्रैव शीतोदकपरिभोगे विषीदति लगति निमज्जतीतियावत्, न त्वसौ वराक एवमवधारयति, यथा- तेषां तापसादिव्रतानुष्ठायिनां कुतश्चिजातिस्मरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्रभावसंयमप्रतिपत्त्या अपगतज्ञानावरणीयादिकर्मणां भरतादीनामिव मोक्षावाप्तिः न तु शीतोदकपरिभोगादिति // 1 // 225 // किञ्चान्यत्- केचन कुतीर्थिकाः साधुप्रतारणार्थमेवमूचुः, यदिवा स्ववाः शीतलविहारिण एतद्वक्ष्यमाणमुक्तवन्तः, तद्यथा- नमीराजा विदेहो नाम जनपदस्तत्र भवा वैदेहा:- तन्निवासिनो लोकास्तेऽस्य सन्तीति वैदेही, स एवम्भूतो नमी राजा अशनादिकमभुक्त्वा सिद्धिमुपगतः, तथा रामगुप्तश्च राजर्षिराहारादिकं भुक्त्वैव भुञ्जान एव सिद्धिं प्राप्त इति, तथा बाहुकः शीतोदकादिपरिभोगं कृत्वा तथा तारागणो नाम महर्षिः परिणतोदकादिपरिभोगात्सिद्ध इति // 2 // 226 // अपिच आसिले देविले चेव, दीवायण महारिसी। पारासरे दगंभोच्चा, बीयाणि हरियाणि य॥सूत्रम् 3 // ( / / 227 // ) एते पुव्वं महापुरिसा, आहिता इह संमता। भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सुअं॥सूत्रम् 4 // // 228 // ) ॐ नारायणे (मु०)। // 172 //