________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 171 / / स्वतोऽप्यग्लानतया यथाशक्ति समाहितः समाधि प्राप्त इति, इदमुक्तं भवति- यथा यथाऽऽत्मनः समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा यथा तस्य च ग्लानस्य समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति // 20 // 223 // किं कृत्वैतद्विधेयमिति दर्शयितुमाह- 'संखाये' त्यादि, संख्याय- ज्ञात्वा कं?- धर्म सर्वज्ञप्रणीतं श्रुतचारित्राख्यभेदभिन्नं पेशलं इति सुश्लिष्टं प्राणिनामहिंसादिप्रवृत्त्या प्रीतिकारणम्, किम्भूतमिति दर्शयति- दर्शनं दृष्टिः सद्भूतपदार्थगता सम्यग्दर्शनमित्यर्थः, सा विद्यते यस्यासौ दृष्टिमान् यथावस्थितपदार्थपरिच्छेदवानित्यर्थः, तथा परिनिर्वृत्तो रागद्वेषविरहाच्छीतीभूतस्तदेवं धर्मं पेशलं परिसंख्याय दृष्टिमान् परिनिर्वृत उपसर्गाननुकूलप्रतिकूलान्नियम्य-संयम्य सोढा, नोपसर्गरुपसर्गितोऽसमञ्जसंविदध्यादित्येवं आमोक्षाय अशेषकर्मक्षयप्राप्तिं यावत् परि-समन्तात् व्रजेत्-संयमानुष्ठानोद्युक्तो भवेत् परिव्रजेद्, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् // 21 // 224 // इति तृतीयोद्देशकः समाप्तः॥३॥ श्रुतस्कन्धः१ तृतीयमध्ययन उपसर्गपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 1 (225) स्खलितशीलस्य प्रज्ञापना ॥तृतीयाध्ययने चतुर्थोद्देशकः॥ | उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थः समारभ्यते- अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके अनुकूलप्रतिकूलोपसर्गाः प्रतिपादिताः, तैश्च कदाचित्साधुः शीलात् प्रच्याव्येत-तस्य च स्खलितशीलस्य प्रज्ञापनाऽनेन प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिमं सूत्र___आहेसु महापुरिसा, पुव्विं तत्ततवोधणा / उदएण सिद्धिमावन्ना, तत्थ मंदो विसीयति // सूत्रम् 1 // ( // 225 // ) (r) प्रीतिकारिणं (प्र०)। 0 हाच्छान्तीभूत (मु०)। // 171 //