SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 166 // कारकाः तुब्भे भुंजह पाएसु, गिलाणो अभिहडंमि या। तं च बीओदगं भोच्चा, तमुद्दिस्सादि जंकडं। सूत्रम् 12 / / ( // 215 / / ) / श्रुतस्कन्धः१ अथ अनन्तरं तान् एवं प्रतिकूलत्वेनोपस्थितान् भिक्षुः परिभाषेत ब्रूयात्, किम्भूतः?- मोक्षविशारदो मोक्षमार्गस्यसम्यग्ज्ञान तृतीयमध्ययनं | उपसर्गपरिज्ञा, दर्शनचारित्ररूपस्य प्ररूपकः, एवं अनन्तरोक्तं यूयं प्रभाषमाणाः सन्तः दुष्टः पक्षो दुष्पक्षः- असत्प्रतिज्ञाभ्युपगमस्तमेव सेवध्वं / | तृतीयोद्देशकः यूयम्, यदिवा-रागद्वेषात्मकं पक्षद्वयं सेवध्वं यूयम्, तथाहि-सदोषस्याप्यात्मीयपक्षस्य समर्थनाद्रागो, निष्कलङ्कस्याप्यस्म- | सूत्रम् 12-13 (215-216) दभ्युपगमस्य दूषणाद्वेषः, अथै(थवै)वं पक्षद्वयंसेवध्वं यूयम्, तद्यथा-वक्ष्यमाणनीत्या बीजोदकोद्दिष्टकृतभोजित्वाद्गृहस्थाः समाधिहीनाः यतिलिङ्गाभ्युपगमात्किल प्रव्रजिताश्चेत्येवं पक्षद्वयासेवनं भवतामिति, यदिवा- स्वतोऽसदनुष्ठानमपरश्च सदनुष्ठायिनां असमीक्ष्यनिन्दनमितिभावः॥११॥२१४॥ आजीविकादीनां परतीर्थिकानां दिगम्बराणां चासदाचारनिरूपणायाह- किल वयमपरिग्रहतया निष्किञ्चना एवमभ्युपगमंकृत्वा यूयं भुग्ध्वं पात्रेषु कांस्यपात्र्यादिषु गृहस्थभाजनेषु, तत्परिभोगाच्च तत्परिग्रहोऽवश्यंभावी, तथाऽऽहारादिषु मूछौं कुरुध्वमित्यतः कथं निष्परिग्रहाभ्युपगमो भवतामकलङ्क इति, अन्यच्च ग्लानस्य भिक्षाटनं कर्तुमसमर्थस्य यदपरैर्गृहस्थैरभ्याहृतं कार्यते भवद्भिः, यतेरानयनाधिकाराभावाद् गृहस्थानयने च यो दोषसद्भावः स भवतामवश्यंभावीति, तमेव दर्शयति- तच्च गृहस्थैर्बीजोदकाधुपमर्दैनापादितमाहारं भुक्त्वा तं ग्लानमुद्दिश्यौद्देशकादि यत्कृतं यन्निष्पादितं तदवश्यंयुष्मत्परिभोगायावतिष्ठते / तदेवंगृहस्थगृहे तद्भाजनादिषु भाञ्जानास्तथा ग्लानस्य च गृहस्थैरेव वैयावृत्त्यं कारयन्तो यूयमवश्यं बीजोदकादिभोजिन औद्देशिकादिकृतभोजिनश्चेति // 12 // 215 / किञ्चान्यत् // 166 // __ लित्ता तिव्वाभितावेणं, उज्झिआ असमाहिया। नातिकंडूइयं सेयं, अरुयस्सावरज्झती // सूत्रम् 13 // ( // 216 // ) 0प्रसङ्गापादनम्, तैःसम्बन्धमात्रस्य परिग्रहत्वाभ्युपगमात्, अन्यथा निर्मूच्छ धर्मोपकरणधरणापत्तेः। ॐ यच्च (मु०)। 0०द्दिश्योद्दे० (मु०)। 0 उद्दे० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy