SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 कारकाः संबद्धसमकप्पा उ, अन्नमन्नेसु मुच्छिया। पिंडवायं गिलाणस्स, जंसारेह दलाह य // सूत्रम् 9 // ( / / 212 // ) श्रुतस्कन्ध:१ एवं तुब्भे सरागत्था, अन्नमन्त्रमणुव्वसा / नट्टसप्पहसब्भावा, संसारस्स अपारगा।सूत्रम् 10 // ( // 213 // ) तृतीयमध्ययनं उपसर्गपरिज्ञा, सम्- एकीभावेन परस्परोपकार्योपकारितया च बद्धाः पुत्रकलत्रादिस्नेहपाशैः सम्बद्धा-गृहस्थास्तैः समः- तुल्यः कल्पो- तृतीयोद्देशकः व्यवहारोऽनुष्ठानं येषां ते सम्बद्धसमकल्पा- गृहस्थानुष्ठानतुल्यानुष्ठाना इत्यर्थः, तथाहि-यथा गृहस्था परस्परोपकारेण माता। सूत्रम् 9-11 (212-214) पुत्रे पुत्रोऽपि मात्रादावित्येवं मूछिता अध्युपपन्नाः, एवं भवन्तोऽपि अन्योऽन्यं परस्परतः शिष्याचार्याद्युपकारक्रियाकल्पनया समाधिहीना: मूच्छिताः, तथाहि- गृहस्थानामयं न्यायो यदुत- परस्मै दानादिनोपकार इति, न तु यतीनाम, कथमन्योऽन्यं मूञ्छिता इति / असमीक्ष्यदर्शयति- पिण्डपातं भक्ष्यं ग्लानस्य अपरस्य रोगिणः साधोः यद्-यस्मात् सारेह त्ति अन्वेषयत, तथा दलाहय ति ग्लानयोग्यमाहारमन्विष्य तदुपकारार्थं ददध्वम्, चशब्दादाचार्यादेः वैयावृत्त्यकरणाद्युपकारेण वर्तध्वम्, ततो गृहस्थसमकल्पा इति॥ ९॥२१२॥साम्प्रतमुपसंहारव्याजेन दोषदर्शनायाह- एवं परस्परोपकारादिना यूयं गृहस्था इव सरागस्थाः- सह रागेण वर्तत इति सरागः-स्वभावस्तस्मिन् तिष्ठन्तीति ते तथा, अन्योऽन्यं परस्परतो वशमुपागता:- परस्परायत्ताः, यतयो हि निःसङ्गतया न कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामयं न्याय इति, तथा नष्टः- अपगतः सत्पथः- सद्भावः- सन्मार्गः परमार्थो येभ्यस्ते तथा / एवम्भूताश्च यूयं संसारस्य चतुर्गतिभ्रमणलक्षणस्य अपारगा अतीरगामिन इति // 10 // 213 // अयं तावत्पूर्वपक्षः, अस्य च दूषणायाह अह ते परिभासेजा, भिक्खु मोक्खविसारए। एवं तुब्भे पभासंता, दुपक्खं चेव सेवह // सूत्रम् 11 // // 214 // ) 0 अन्वेषयन्ते (प्र०)। (c) दलाहत्ति (प्र०)। 0 मुपगताः (प्र०)। // 165 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy