________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 164 // सूत्रम् 7-8 एवं समुट्ठिए भिक्खू, वोसिज्जाऽगारबंधणं। आरंभं तिरियं कटु, अत्तत्ताए परिव्वए।सूत्रम् 7 // ( // 210 // ) श्रुतस्कन्धः 1 तमेगे परिभासंति, भिक्खूयंसाहुजीविणं। जे एवं परिभासंति, अंतए ते समाहिए। सूत्रम् 8 // ( // 211 // ) तृतीयमध्ययनं उपसर्गपरिज्ञा, यथा सुभटा ज्ञाता नामतः कुलतः शौर्यतः शिक्षातश्च तथा सन्नद्धबद्धपरिकराःकरगृहीतहेतयः प्रतिभटसमितिभेदिनो न तृतीयोद्देशकः पृष्ठतोऽवलोकयन्ति, एवं भिक्षुरपि साधुरपि महासत्त्वः परलोकप्रतिस्पर्द्धिनमिन्द्रियकषायादिकमरिवर्ग जेतुं सम्यक् (210-211) संयमोत्थानेनोत्थितः समुत्थितः, तथा चोक्तं- कोहं माणं च मायं च, लोहं पंचिंदियाणि य / दुज्जयं चेवमप्पाणं, सव्वमप्पे जिए राजादिजियं॥१॥ किं कृत्वा समुत्थित इति दर्शयति- व्युत्सृज्य त्यक्त्वा अगारबन्धनं गृहपाशं तथा आरम्भं सावधानुष्ठानरूपं नोपसर्गाः तिर्यकृत्वा अपहस्त्य आत्मनो भाव आत्मत्वं- अशेषकर्मकलङ्करहितत्वं तस्मै आत्मत्वाय, यदिवा- आप्तों - मोक्षः संयमो वा तद्धावस्तस्मै-तदर्थं परि-समन्ताद्वजेत्-संयमानुष्ठानक्रियायांदत्तावधानो भवेदित्यर्थः / / 7 // 210 // निर्युक्तौ यदभिहितमध्यात्मविषीदनं तदुक्तम्, इदानीं परवादिवचनं द्वितीयमर्थाधिकारमधिकृत्याह- त मिति साधुं एके ये परस्परोपकाररहितं दर्शनमापन्ना अयःशलाकाकल्पाः, ते च गोशालकमतानुसारिण आजीविका दिगम्बरा वा, त एवं वक्ष्यमाणं परिसमन्ताभाषन्ते / तं भिक्षुकं साध्वाचारं साधु- शोभनं परोपकारपूर्वकं जीवितुं शीलमस्य स साधुजीविनमिति, ये ते अपुष्टधर्माण ‘एवं वक्ष्यमाणं परिभाषन्ते साध्वाचारनिन्दां विदधति त एवंभूता अन्तकेपर्यन्ते दूरे समाधेः मोक्षाख्यात्सम्यग्ध्यानात्सदनुष्ठानात् वा वर्तन्त इति // 8 // 211 // यत्ते प्रभाषन्ते तद्दर्शयितुमाह // 164 // क्रोधः मानश्च माया च लोभः पञ्चेन्द्रियाणि च / दुर्जयं चैवात्मनां सर्वमात्मनि जिते जितम् // 1 // हस्तयित्वा (प्र०)10 आत्मा-मोक्षः (मु०)10 परि-8 वादि० (प्र०)10 षन्ते परिभाषन्ते (प्र०)। 0 मोक्षात् (प्र०)।