________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 श्रुतस्कन्धः१ तृतीयमध्ययनं उपसर्गपरिज्ञा, तृतीयोद्देशकः (208-209) राजादि नोपसर्गाः व्रीहे/जं न जातु यवाङ्करम् // 1 // इति // 4 // 207 / / उपसंहारार्थमाह इच्चेव पडिलेहंति, वलया पडिलेहिणो। वितिगिच्छसमावन्ना, पंथाणंच अकोविया // सूत्रम् 5 // ( // 208 // ) जे उ संगामकालंमि, नाया सूरपुरंगमा।णोते पिट्ठमुवेहिति, किं परं मरणं सिया?॥सूत्रम् 6 // // 209 // ) इत्येवमि ति पूर्वप्रक्रान्तपरामर्शार्थः, यथा भीरवः सङ्ग्रामे प्रविविक्षवो वलयादिकं प्रत्युपेक्षिणों भवन्तीति, एवं प्रव्रजिता मन्दभाग्यतया अल्पसत्त्वा आजीविकाभयाव्याकरणादिकं जीवनोपायत्वेन प्रत्युपेक्षन्ते परिकल्पयन्ति, किम्भूताः?विचिकित्सा-चित्तविप्लुति:-किमेनं संयमभारमुत्क्षिप्तमन्तं नेतुंवयं समर्थाः उत नेतीत्येवम्भूता, तथा चोक्तं-लुक्खमणुण्हमणिययं कालाइक्तभोयणं विरसं। भूमीसयणं लोओ असिणाणं बंभचेरं च // 1 // तां समापन्नाः- समागताः, यथा पन्थानं प्रति अकोविदा अनिपुणाः, किमयं पन्था विवक्षितं भूभागंयास्यत्युत नेतीत्येवंकृतचित्तविप्लुतयो भवन्ति, तथा तेऽपि संयमभारवहनं प्रति विचिकित्सां समापन्ना निमित्तगणितादिकं जीविकार्थं प्रत्युपेक्षन्त इति // 5 // 208 // साम्प्रतं महापुरुषचेष्टिते दृष्टान्तमाह- ये पुनर्महासत्त्वाः तुशब्दो विशेषणार्थः सङ्ग्रामकाले परानीकयुद्धावसरे ज्ञाताः लोकविदिताः, कथं ?- शूरपुरङ्गमाः शूराणामग्रगामिनो युद्धावसरे सैन्याग्रस्कन्धवर्तिन इति, त एवम्भूताः सङ्ग्रामं प्रविशन्तोन पृष्ठमुत्प्रेक्षन्ते नदुर्गादिकमापत्त्राणाय पर्यालोचयन्ति, ते चाभङ्गकृतबुद्धयः, अपित्वेवं मन्यन्ते- किमपरमत्रास्माकं भविष्यति?, यदि परं मरणं स्यात्, तच्च शाश्वतं यशःप्रवाहमिच्छतामस्माकं स्तोकं वर्तत इति, तथा चोक्तं-विशरारुभिरविनश्वरमपि चपलैः स्थास्नु वाञ्छतां विशदम् / प्राणैर्यदि शूराणां भवति यशः किं न पर्याप्तम्? // 1 // 6 // 209 // तदेवं सुभटदृष्टान्तं प्रदर्श्य दार्शन्तिकमाह 0 प्रति उपेक्षिणो (मु०)। 0 रूक्षमनुष्णमनियतं कालातिक्रान्तं भोजनं विरसम् / भूमिशयनं लोचोऽस्नानं ब्रह्मचर्यं च // 1 // // 163 //