SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 161 // परताः // तृतीयाध्ययने तृतीयोद्देशकः॥ श्रुतस्कन्धः१ उपसर्गपरिज्ञायां उक्तो द्वितीयोद्देशकः,साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशकाभ्यामुपसर्गा तृतीयमध्ययनं उपसर्गपरिज्ञा, अनुकूलप्रतिकूलभेदेनाभिहिताः, तैश्चाध्यात्मविषीदनं भवतीति तदनेन प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि। तृतीयोद्देशकः सूत्रं सूत्रम् 1-2 (204-205)/ जहा संगामकालंमि, पिट्ठतो भीरु वेहइ। वलयं गहणं णूमं, को जाणइ पराजयं? // सूत्रम् 1 // ( // 204 // ) मुनीनामात्ममुहुत्ताणं मुहुत्तस्स, मुहत्तो होइ तारिसो। पराजियाऽवसप्पामो, इति भीरू उवेहई।सूत्रम् 2 // ( // 205 // ) दृष्टान्तेन हि मन्दमतीनां सुखेनैवार्थावगतिर्भवतीत्यत आदावेव दृष्टान्तमाह- यथा कश्चिद् भीरुः अकृतकरणः संग्रामकाले / परानीकयुद्धावसरे समुपस्थिते पृष्ठतः प्रेक्षते आदावेवापत्प्रतीकारहेतुभूतं दुर्गादिकं स्थानमवलोकयति / तदेव दर्शयति-वलय। मिति यत्रोदकं वलयाकारेण व्यवस्थितं उदकरहिता वा गर्ता दुःखनिर्गमप्रवेशा, तथा गहनं धवादिवृक्षैः कटिसंस्थानीयं णूमं ति प्रच्छन्नं गिरिगुहादिकम्, किमित्यसावेवमवलोकयति?, यत एवं मन्यते- तत्रैवम्भूते तुमुले सङ्ग्रामे सुभटसङ्कले को जानाति कस्यात्र पराजयो भविष्यतीति?, यतो दैवायत्ताः कार्यसिद्धयः, स्तोकैरपि बहवो जीयन्त इति॥१॥२०४॥ किञ्च मुहूर्तानामेकस्य वा मुहूर्तस्यापरो मुहूर्तः कालविशेषलक्षणोऽवसरस्तादृग् भवति यत्र जयः पराजयो वा सम्भाव्यते, तत्रैवं व्यवस्थिते पराजिता वयं अवसामोनश्याम इत्येतदपि सम्भाव्यते अस्मद्विधानामिति भीरुः पृष्ठत आपत्प्रतीकारार्थंशरणमुपेक्षते / / // 161 // 2 // 205 // इति श्लोकद्वयेन दृष्टान्तं प्रदर्श्य दार्टान्तिकमाह ॐ कण्टिसं० प्र० / (r) युद्धविषयत्वात् मायोपेक्षेन्द्रजालानि क्षुद्रोपाया इमे त्रय इति श्रीहेमचन्द्रवचनादत्र क्षुद्रोपायपर उपेक्षितः /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy