________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 160 // श्रुतस्कन्ध:१ तृतीयमध्ययनं उपसर्गपरिज्ञा, द्वितीयोद्देशकः सूत्रम् 21-22 (202-203) राजादिनोपसर्गाः भवन्तीत्येवं तेऽपि भावमन्दा उत्क्षिप्तपञ्चमहाव्रतभारंवोढुमसमर्थाः पूर्वोक्तभावावर्तः पराभग्ना विषीदन्ति // 20 // 201 // किञ्च अचयंता व लूहेणं, उवहाणेण तजिया / तत्थ मंदा विसीयंति, उज्जाणंसि जरग्गवा / / सूत्रम् 21 // ( // 202 // ) एवं निमंतणंलढुं, मुच्छिया गिद्ध इत्थीसु / अज्झोववन्ना कामेहि, चोइज्जंता गया गिहं ।।सूत्रम् 22 / / ( / / 203 // ) तिबेमि / / इति उवसग्गपरिणाए बितिओउद्देसोसम्मत्तो // 3-2 // (गाथाग्रं० 203) रूक्षेण संयमेनात्मानं यापयितुमशक्नुवन्तस्तथा उपधानेन अनशनादिना सबाह्याभ्यन्तरेण तपसा तर्जिता बाधिताः सन्तः तत्र संयमे मन्दा विषीदन्ति उद्यानशिरसि उट्टङ्कमस्तके जीर्णो दुर्बलो गौरिव, यूनोऽपि हि तत्रावसीदनं सम्भाव्यते किं पुनर्जरद्रवस्येति जीर्णग्रहणम्, एवमावर्तमन्तरेणापि धृतिसंहननोपेतस्य विवेकिनोऽप्यवसीदनं सम्भाव्यते, किं पुनरावतॆरुपसर्गितानां मन्दानामिति ॥२१॥२०२॥सर्वोपसंहारमाह- एवं पूर्वोक्तया नीत्या विषयोपभोगोपकरणदानपूर्वकं निमन्त्रणं विषयोपभोगं प्रति प्रार्थनं लब्ध्वा प्राप्य 'तेषु' विषयोपकरणेषु हस्त्यश्वरथादिषु मूछिता अत्यन्तासक्तास्तथा स्त्रीषु गृद्धा दत्तावधाना रमणीरागमोहितास्तथा कामेषु इच्छामदनरूपेषु अध्युपपन्नाः कामगतचित्ताःसंयमेऽवसीदन्तोऽपरेणोद्युक्तविहारिणा नोद्यमानाःसंयमं प्रति प्रोत्साह्यमाना नोदनां सोढुमशक्नुवन्तः सन्तो गुरुकर्माणः प्रव्रज्यां परित्यज्याल्पसत्वा गृहं गता-गृहस्थीभूताः। इति: परिसमाप्तौ, ब्रवीमीति पूर्ववत् // 22 // 203 // इति द्वितीयोद्देशकः समाप्तः। // 160 // - ®तण (प्र०)।