________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 159 // अपिच-यस्त्वया पूर्वं भिक्षुभावे प्रव्रज्यावसरे नियमो महाव्रतादिरूपः चीर्णः अनुष्ठितः इन्द्रियनोइन्द्रियोपशमोपगतेन हे सुव्रत! श्रुतस्कन्धः१ स साम्प्रतमपि अगारं गृहं आवसतः गृहस्थभावं सम्यगनुपालयतो भवतस्तथैव विद्यत इति, न हि सुकृतदुष्कृतस्यानुचीर्णस्य। तृतीयमध्ययनं उपसर्गपरिज्ञा, नाशोऽस्तीति भावः // 18 // 199 // किञ्च द्वितीयोद्देशकः चिरं दूइज्जमाणस्स, दोसो दाणिं कुतो तव? / इच्चेवणं निमंति, नीवारेण व सूयरं / सूत्रम् 19 / / ( // 200 // ) सूत्रम् 19-20 (200-201) चोइया भिक्खुचरियाए, अचयंता जवित्तए। तत्थ मंदा विसीयंति, उज्जाणंसि व दुब्बला॥ सूत्रम् 20 // ( // 201 // ) राजादिचिरं प्रभूतं कालं संयमानुष्ठानेन दूइज्जमाणस्स त्ति विहरतःसतः इदानीं साम्प्रतं दोषः कुतस्तव?, नैवास्तीति भावः,इत्येवं नोपसर्गाः हस्त्यश्वरथादिभिर्वस्त्रगन्धालङ्कारादिभिश्च नानाविधैरुपभोगोपकरणैः करणभूतैः ण मिति वाक्यालङ्कारे तं भिर्दू साधु-- जीविनं निमन्त्रयन्ति भोगबुद्धिं कारयन्ति, दृष्टान्तं दर्शयति- यथा नीवारेण व्रीहिविशेषकणदानेन सूकरं वराहं कूटके प्रवेशयन्ति / एवं तमपि साधुमिति // 19 // 200 // अनन्तरोपन्यस्तवार्तोपसंहारार्थमाह-भिक्षूणां-साधूनामुधुक्तविहारिणांचर्या, दश-8 विधचक्रवालसामाचारी इच्छामिच्छेत्यादिका वातया चोदिता:- बाधिता:, यदिवा भिक्षुचर्यया करणभूतया सीदन्तश्चोदिता:तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तच्चोदनामशक्नुवन्तः संयमानुष्ठानेनात्मानं यापयितुं वर्तयितुमसमर्थाः सन्तः तत्र तस्मिन् संयमे मोक्षैकगमनहेतौ भवकोटिशतावाप्ते मन्दा जडा विषीदन्ति शीतलविहारिणो भवन्ति, तमेवाचिन्त्यचिन्तामणिकल्पं महापुरुषानुचीर्णं संयम परित्यजन्ति, दृष्टान्तमाह- ऊर्ध्वं यानमुद्यानं- मार्गस्योन्नतो भाग उट्टङ्कमित्यर्थः, // 159 // तस्मिन् उद्यानशिरसि उत्क्षिप्तमहाभरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति- ग्रीवां पातयित्वा तिष्ठन्ति नोत्क्षिप्तभरनिर्वाहका ®योपशमगतेन (मु०)। 0 °दिका तया चोदिताः-प्रेरिता (मु०)।