________________ श्रीसूत्रकृताङ्गं| नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ | // 153 // // तृतीयाध्ययने द्वितीयोद्देशकः॥ श्रुतस्कन्धः१ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहोपसर्गपरिज्ञाध्ययने उपसर्गाः प्रतिपिपादयि- तृतीयमध्ययन उपसर्गपरिज्ञा, षिताः, ते चानुकूलाः प्रतिकूलाच, तत्र प्रथमोद्देशके प्रतिकूलाः प्रतिपादिताः, इह त्वनुकूला: प्रतिपाद्यन्त इत्यनेन सम्बन्धेना- द्वितीयोद्देशकः यातस्यास्योद्देशकस्याऽऽदिसूत्रं 8 सूत्रम् 1-2 (182-183) अहिमे सुहुमा संगा, भिक्खुणं जे दुरुत्तरा / जत्थ एगे विसीयंति, ण चयंति जवित्तए। सूत्रम् 1 // 182 // 8 अनुकूलोअप्पेगे नायओ दिस्स, रोयंति परिवारिया। पोसणे ताय! पुट्ठोऽसि, कस्स ताए! जहासिणे? // सूत्रम् 2 // 183 // पसर्गाः स्वजनोपसर्गाः अथ इति आनन्तर्ये, प्रतिकूलोपसर्गानन्तरमनुकूलाः प्रतिपाद्यन्त इत्यानन्तर्यार्थः , इमे अनन्तरमेवाभिधीयमानाः प्रत्यक्षासन्नवाचित्वादिदमाऽभिधीयन्ते, तेच सूक्ष्माः प्रायश्चेतोविकारकारित्वेनान्तराः, न प्रतिकूलोपसर्गा इव बाहुल्येन शरीरविकारकारित्वेन प्रकटतया बादरा इति, सङ्गा मातापित्रादिसम्बन्धाः य एते भिक्षूणां साधूनामपि दुरुत्तरा दुर्लङ्घया-दुरतिक्रमणीया इति, प्रायोजीवितविघ्नकरैरपि प्रतिकूलोपसर्गेरुदीर्णैर्माध्यस्थ्यमवलम्बयितुंमहापुरुषैःशक्यम्, एते त्वनुकूलोपसर्गास्तानप्युपायेन धर्माच्च्यावयन्ति, ततोऽमी दुरुत्तरा इति, यत्र येषूपसर्गेषु सत्सु एके अल्पसत्त्वाः सदनुष्ठानं प्रति विषीदन्ति शीतलविहारित्वं भजन्ते सर्वथा वा संयमंत्यजन्ति, नैवात्मानं संयमानुष्ठानेन यापयितुं-वर्तयितुंतस्मिन् वा व्यवस्थापयितुं शक्नुवन्ति' समर्था भवन्तीति ॥१॥१८२॥तानेव सूक्ष्मसङ्गान् दर्शयितुमाह- अपिःसंभावने एकेतथाविधा ज्ञातयः स्वजना मातापित्रादयः प्रव्रजन्तं प्रव्रजितं वा दृष्टा उपलभ्य परिवार्य वेष्टयित्वा रुदन्ति रुदन्तो वदन्ति च दीनं यथा-बाल्यात् प्रभृति त्वमस्माभिः (r) र्यार्थः, ते इमे (मु०)। 0 यतः प्र० / // 153 //