SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 152 // __ अपि:संभावने, एके अनार्या आत्मदण्डसमाचारा मिथ्यात्वोपहतबुद्धयोरागद्वेषपरिगताः साधुंपलियंते सिंति अनार्यदेशपर्यन्ते श्रुतस्कन्धः१ वर्तमानं चारि चोरित्ति त्ति चरोऽयं चौरः अयं स्तेन इत्येवं मत्वा सुव्रतं कदर्थयन्ति, तथाहि- बध्नन्ति रज्वादिना संयमयन्ति उपसर्गपरिज्ञा, भिक्षुकं भिक्षणशीलं बालवद् बाला अज्ञाः सदसद्विवेकविकलास्तथा कषायवचनैश्च क्रोधप्रधानकटुवचनैर्निर्भर्त्सयन्तीति॥ 15 // 179 // अपिच-तत्र तस्मिन्ननार्यदेशपर्यन्ते वर्तमानः साधुरनायः दण्डेन यष्टिना मुष्टिना वा संवीतः प्रहतोऽथवा फलेन वा सूत्रम् 15-17/ (179-181) मातुलिङ्गादिना खड्गादिना वा स साधुरेवं तैः कदर्यमानः कश्चिदपरिणतः बालः अज्ञो ज्ञातीनां स्वजनानां स्मरति, तद्यथा-परिषडाना यद्यत्र मम कश्चित् सम्बन्धी स्यात् नाहमेवम्भूतां कदर्थनामवाप्नुयामिति, दृष्टान्तमाह- यथा स्त्री क्रुद्धा सती स्वगृहात् गमनशीला दुःसहता निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चात्तापा ज्ञातीनां स्मरति एवमसावपीति // 16 // 180 // उपसंहारार्थमाह-भोइति शिष्यामन्त्रणम्, य एत आदितः प्रभृति दंशमशकादयः पीडोत्पादकत्वेन परीषहा एवोपसर्गा अभिहिताः कृत्स्नाः संपूर्णा बाहुल्येन स्पृश्यन्ते- स्पर्शेन्द्रियेणानुभूयन्ते इति स्पर्शाः, कथम्भूताः?- परुषाः परुषैरनार्यैः कृतत्वात् पीडाकारिणः, ते चाल्पसत्त्वैर्दुःखेनाधिसह्यन्ते तांश्चासहमाना लघुप्रकृतयः केचनाश्लाघामङ्गीकृत्य हस्तिन इव रणशिरसि शरजालसंवीताः शरशताकुला भङ्गमुपयान्ति एवं क्लीबा असमर्था अवशाः परवशाः कर्मायत्ता गुरुकर्माणः पुनरपि गृहमेव गताः, पाठान्तरं वा तिव्वसढे त्ति तीव्ररुपसगैरभिद्रुताः 'शठाः' शठानुष्ठानाः संयम परित्यज्य गृहं गताः, इति ब्रवीमीति पूर्ववत् / / 17 // 181 // इति प्रथमोद्देशक समाप्तः। // 152 // 0 शीलं बाला (मु०)। 0 कुलाङ्गा : प्र०10 सढे (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy