SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ | श्रीसूत्रकृताङ्गं | नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 149 // इत्यादि, अपिः संभावने, एकः कश्चिच्छादिः लूषयतीति लूषकः प्रकृत्यैव क्रूरो भक्षकः, खुधियं ति क्षुधितं- बुभुक्षितं श्रुतस्कन्धः१ भिक्षामटन्तं भिक्षु दशति भक्षयति दशनैरङ्गावयवं विलुम्पति, तत्र तस्मिन् श्वादिभक्षणे सति मन्दा अज्ञा अल्पसत्त्वतया तृतीयमध्ययनं विषीदन्ति दैन्यं भजन्ते, यथा तेजसा अग्निना स्पृष्टा दह्यमानाः प्राणिनो जन्तवो वेदनातःसन्तो विषीदन्ति-गात्रं संकोचयन्त्यार्त उपसर्गपरिज्ञा, प्रथमोद्देशकः ध्यानोपहता भवन्ति, एवं साधुरपि क्रूरसत्त्वैरभिद्रुतः संयमाद्भ्रश्यत इति, दुःसहत्वाद्वामकण्टकानाम् // 8 // 172 // पुनरपि / सूत्रम् 9-10 तानधिकृत्याह (173-174) परिषहानां अप्पेगे पडिभासंति, पाडिपूंथियमागता। पडियारगता एते, जे एते एव जीविणो॥सूत्रम् 9 // ( // 173 // ) दुःसहता अप्पेगे वइ जुजंति, नगिणा पिंडोलगाहमा / मुंडा कंडूविणटुंगा, उज्जल्ला असमाहिता ॥सूत्रम् 10 // // 174 // ) अपि: संभावने, एके केचनापुष्टधर्माण:- अपुण्यकर्माणः प्रतिभाषन्ते ब्रुवते, प्रतिपथ:- प्रतिकूलत्वं तेन चरन्ति प्रातिपथिकाः- साधुविद्वेषिणस्तद्भावमागताः कथञ्चित्प्रतिपथेवा दृष्टा अनार्या एतद् ब्रुवते, सम्भाव्यत एतदेवंविधानाम, तद्यथाप्रतीकारः- पूर्वाचरितस्य कर्मणोऽनुभवस्तमेके गताः-प्राप्ताःस्वकृतकर्मफलभोगिनो य एते यतयः एवंजीविन इति परगृहाण्यटन्तोऽन्तप्रान्तभोजिनाऽदत्तदाना लुञ्चितशिरसः सर्वभोगवश्चिता दुःखितं जीवन्तीति // 9 // 173 // किञ्च- अप्येके केचन कुसृतिप्रसृता अनार्या वाचं युञ्जन्ति-भाषन्ते तद्यथा एते जिनकल्पिकादयो नग्नास्तथा पिंडोलग त्ति परपिण्डप्रार्थका अधमाःमलाविलत्वात् जुगुप्सिता मुण्डा लुञ्चितशिरसः, तथा-क्वचित्कण्डूकृतक्षतै रेखाभिर्वा विनष्टाङ्गा-विकृतशरीराः, अप्रतिकर्मशरीरतया वा क्वचिद्रोगसम्भवे सनत्कुमारवद्विनष्टाङ्गाः, तथोद्गतो जल्ल:- शुष्कप्रस्वेदो येषां ते उज्जल्लाः, तथा असमाहिता // 149 // (r) झंझियं (मु०) ॐ तद्दारवेयणिजे ते चू०। 0 पिंडेसु दीयमानेसु उल्लेति अधमा अधमजातयः चू०। 0 उज्जाताः नष्टाः चू०७ ०ण्यटन्ति अतोऽन्त (मु०)। RO नष्टाङ्गः (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy